SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 68 ललितासहस्रनामस्तोत्रम् यो मन्त्रिणीः । मन्त्रोऽस्यास्तीति मन्त्रि मन्त्रवीर्यं तन्नयति विषयीकरोतीति तदनुभवस्तेन परिसेविता । आत्मनं त्रिपुरसुन्दर्याश्वाभेदेनानुसन्धाने क्रियमाणे यत्तावत् तन्त्रराः कथितं गरुमुखैकवेद्यं मन्त्रवीर्ययोजनं तस्यानुभवो भवतीत्यर्थः । तथा च सूत्रम्-'महाह्रदानुसन्धानान्मन्त्रवीर्यानुभव' इति । 'महाहृद इति प्रोक्ता शक्तिर्भगवती परा । अनुसन्धानमित्युक्तं तत्तादात्म्यविमर्शनम् ॥ मन्त्रवीर्यमिति प्रोक्तं पूर्णाहन्ताविमर्शनम् । तदीयोऽनुभवस्तस्य स्फुरणं स्वात्मनः स्फुटम् ॥' Acharya Shri Kailassagarsuri Gyanmandir इति । एतच्च 'विद्याशरीरस्फुरता मन्त्ररहस्य मिति सूत्रे भगवता श्रीक्षेमराजेन विस्तरेण स्फुटीकृतम् ॥ ७७ ॥ किरिचक्ररथारूढदण्डनाथापुरस्कृता । किरिर्वराहः 'कोलः पोत्री किरिः किटि रित्यमरात् । तदाकृतीनि तदाकृष्टानि वा चक्राणि यस्य तं रथमारूढया दण्डनाथया वाराह्याख्यया देव्या पुरस्कृता सेविता । 'सर्वदा दण्डपाणित्वाद् दण्डनाथेतिगीयत इति त्रिपुरासिद्धान्ते दण्डनाथनामनिर्वचनात् । अथवा किरय इति किरणाः सृष्टय इति यावत् । इदमुपलक्षणं स्थितिलययोः तेषां चक्रं समूह एव रथः तस्यारोहेऽपि दण्डनाथेन कृतान्तेन पुरस्कृता न स्वाधीनीकृता । सृष्टिस्थितिलयान्तः पतितोऽपि योगी न यमयातनाविषयः । अलुप्तानुसन्धान इति यावत् । तथा च सूत्रम् -' तत्प्रवृत्तावप्यनिरास: स्वसंवेत्तृभावादिति । व्याख्यातं भगवता कृष्णदासेन 'तेषां सृष्ट्यादिभावानां प्रवृत्तावप्यनारतम् । उन्मज्जनेऽपि निष्कम्पयोगावष्टम्भशालिनः ॥ अनिरासः स्वसंवेत्तृभावादप्रच्युतिर्निजात् । उद्यत्तुर्यचमत्कारादुपलब्धिस्वभावतः ॥' इति । ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ ७८ ॥ ज्वालामालिनीनामिका चतुर्दशीतिथिनित्या । तया हि श्रीमातरमभितो वह्निमयः प्राकारो निर्मितः । तदाक्षिप्तस्य निर्मितस्य वह्निमयस्य प्राकारस्य किरिचक्रनामकं रथमारूढा । या दण्डनाथा वाराही तया पुरस्कृता सेविता । पुरस्कृतायै इति ॥ ज्वालामालिनीति चतुर्दशी नित्या । तया आसमन्तात्परितः क्षिप्तस्य निर्मितस्य वह्निमयप्राकारस्य सालस्य मध्यभागे गच्छती [ति] स्थिता सा । मध्यगायै इति ॥ ७८ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy