SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् 63 इति । तस्य दैत्यस्य वधे हनने उद्युक्तानां शक्तीनां स्त्रीदेवतानां सेनाभिः सैन्ये सम्यक् व्यूहनिर्माणिनान्विता युक्ता । सम्यगभेदेनान्विता वा । तथा च गौडपादीयं सूत्रम्'भण्डासुरहननार्थमेकैव अनेका' इति यद्वा भण्डो निर्लज्जः स च प्रकृते जीवभावमापन्नो देही । तदाहु: 'सच्चित्सुखात्माऽपि जडास्थिरत्वदुःखादिभिः क्लिश्यसि भण्डिमायमिति । तस्यासून् प्राणान् रात्यादत्ते तत्सर्वं स्वं तद्द्वतो धर्मो भण्डिमेति यावत् । ज्ञानबन्ध इति सूत्रोक्तो बन्ध इति भावः । अस्यात्मा ज्ञानमिति सूत्रद्वयं सन्धावकारश्लेषाश्लेषाभ्यामात्मन्यात्मत्वज्ञानाभावोऽनात्मन्यात्मत्वज्ञानं च आणवमलपदवाच्यत्वेन प्रसिद्धो बन्ध इत्यर्थस्तद्भाष्य॒वार्तिकयोरुक्तः । तस्य वधो यस्मात्तदुद्युक्तमुद्योग उद्यम इति यावत् तस्य याः शक्तयः सामथ्यानि तासां सेनया समूहेन समन्वितेति रहस्यार्थः । तथा च शिवसूत्राणि - 'उद्यमी भैरवः । शक्तिचक्रानुसन्धाने विश्वसंहारः । शक्तिसन्धाने शरीरोत्पत्तिः भूतसन्धाने भूतपृथक्त्वविश्वसंघट्टा इत्यादीनि तद्वार्तिकानि यथा 11 1 'योयं विमशरूपायाः प्रसरन्त्याः स्वसंविदः । झडित्युच्चलनाकारप्रतिभान्मज्जनात्मकः उद्यमोऽन्तः परिस्पन्दः पूर्णाहभावनात्मकः । स एव सर्वशक्तीनां सामरस्यादशेषतः ॥ विश्वतोभरितत्वेन विकल्पानां विभेदिनाम् । अलं कवलननापात्यन्वर्थादेव भैरवः ॥ योsयमुक्तः स्वसंवित्तरुद्योगो भैरवात्मकः । अस्यास्ति महती शक्तिरतिक्रान्तक्रमाक्रमा ॥ निःशेषनिर्जाचच्छक्तिसनाक्रमणलम्पटा रिक्तारिक्ताभयाकाराप्यन्यैतद्दूषिणी परा ॥ तथैव स्वात्मचिद्भित्तौ प्रमेयोल्लासनादितः । परप्रमातृविश्रान्तिपर्यन्तस्पन्दरूपया सृष्टिस्थितिलयान्ताख्या भासा शक्तिप्रसारणात् । प्रपञ्चविषयं चञ्चत्पञ्चकृत्यं प्रपञ्चितम् ॥ तया प्रसारितस्यास्य शक्तिचक्रस्य यत्पुनः । सन्धानमन्तरा माया सोक्तक्रमविमर्शनम् ॥ तस्मिन्सत्यस्य विश्वस्य कालाग्न्यादिकलावधेः । संहार: स्यात्स्वसंवित्तिवह्निसद्भावलक्षणः ॥ इच्छाशक्तिरुमत्यादिसूत्रोक्ता शक्तिरस्य या । सन्धाने योगिनस्तस्यास्तन्मये भावने सति ॥ तद्वशात्तत्तदिच्छार्हशरीरोत्पत्तिरिष्यते भूतानां देहधीप्राणशून्यानां ग्राहकात्मनाम् ॥ 11 1 For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy