________________
Shri Mahavir Jain Aradhana Kendra
62
इत्यारभ्य
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
'अयं भण्डासुरो देवि बाधते जगतां त्रयम् । त्वयैकयैव जेतव्यो न शक्यस्त्वपरैः सुरैः ॥'
इत्यारभ्य
इत्यन्तम् । वस्तुतस्तु देवा ब्रह्मादयः । ऋषयो वसिष्ठादयः । देवर्षयो नारदादयः | देवर्षयश्च देवर्षयश्चेति विग्रहः । गणाः आदित्यादयः ।
'आदित्यविश्ववसवस्तुषिताभास्वरानिलाः । महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥'
इत्यग्निपुराणात् । तेषां संघातः समुदाय: 'अनेककोटिदिक्पालैश्चन्द्रार्कवसुकोटिभिरित्यादिरुद्रयामलोक्तस्तेन स्तूयमानमित्यर्थः । तेन न गणसंघातपदाभ्यां पौनरुक्त्यं शङ्कनीयम् । अथ पररूपपरत्वपक्षे देवादिस्तूयमानत्व विशेषणादखिलानुगतमखिलपरिचितमखिलप्रेमास्पदं चैतन्यमेवात्मेति शैवशास्त्रोक्त स्वरूपं ध्वनितम् | अग्निपुराणेऽपि -
'तस्य चैतन्यमात्मेति प्रथमं सूत्रमीरितम् । ज्ञानबन्ध इतीदं तु द्वितीयं सूत्रमीशितुः ॥
इति । ततश्च देवादिभिः स्तूयमानं परिचीयमानमात्मनः । 'स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहेति तन्त्रराजोक्ताया आत्माभिन्नदेवताया वैभवं विभुत्वमनन्तशक्तिसंवृतत्वरूपं प्राभवं यस्याः सेति वर्णनीयम् । अथ 'देवकार्यसमुद्यतेति यत्स्थूलरूपस्य कार्यमुक्तं तत्प्रपञ्चयति ।
भण्डासुरवधोद्युक्त शक्तिसेनासमन्विता ॥ ७५ ॥
भण्डनामकोऽसुरस्तद्युद्धादिकं च ललितोपाख्याने विस्तरेण प्रसिद्धतरम् । तदुक्तं तत्रैव ब्रह्माण्डपुराणे मन्मथदाहं प्रक्रम्य,
'अथ तद्भस्म संवीक्ष्य चित्रकर्मा गणेश्वरः । तद्भस्मना तु पुरुषं चित्राकारं चकार स ॥'
Acharya Shri Kailassagarsuri Gyanmandir
'एतद्दृष्ट्वा तु चरितं धाता भण्डितिभण्डिति । यदुवाच ततो नाम्ना भण्डो लोकेषु कथ्यते ॥
इत्यन्तम् । तस्यासुरत्वमपि तत्रैवोक्तम्
'रुद्रकोपानलाज्जातो यतो भण्डो महाबलः । तस्माद्रौद्रस्वभावश्च
दानवश्चाभवत्ततः ॥
भण्ड नामको योऽसुरस्तस्य वधे हमने उद्युक्ता याः शक्तय: तासां सेनाभिः सम्यगन्विता युक्ता । समन्वितायै इति ॥ ७५ ॥
For Private and Personal Use Only