SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् पञ्चभिर्ब्रह्मभिर्निर्मितमासनं मञ्चकरूपं तत्र स्थिता । तदुक्तं बहुरूपाष्टकत भैरवयामलतन्त्रे च 'तत्र चिन्तामणिमयं देव्या मन्दिरमुत्तमम् । शिवात्मके महामञ्चे महेशानोपबर्हणे ॥ अतिरम्यतले तत्र कशिपुश्च सदाशिवः । भृतकाश्च चतुष्पादा महेन्द्रश्च पतद्ग्रहः ॥ तत्रास्ते परमेशानी महात्रिपुरसुन्दरी । Acharya Shri Kailassagarsuri Gyanmandir इति । भृतकाः भृत्याः द्रुहिणहरिरुद्रेश्वरा इत्यर्थः । आग्नेयादीशानान्तविदिक्षु ब्रह्मादय उपर्यधःस्तम्भरूपाः मध्ये पुरुषरूपा अपि श्रीध्यानाच्छक्तिभावं प्राप्ता मीलिताक्षा निश्चला इत्यादिकं पुराणादवगन्तव्यम् ॥ ७३ ॥ महापद्माटवीसंस्था कदम्बवनवासिनी । 59 महान्ति पद्मानि यस्यामीदृश्यामटव्यां वने सम्यक्तिष्ठति । पद्माटवीस्वरूपमूर्ध्वं 'त्रिलक्षयोजनायाममहापद्मवनावृतम् इति रुद्रयामलोक्तमेकम् । ललितास्तवरत्नोक्तमन्यत्'मणिसदनसालयोरधिमध्यं दशतालभूमिरुहृदीर्घेः । पर्णैः पयोदवर्णैर्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥ मिलितैस्तालीपञ्चकमानैर्मिलितां च केसरकदम्बैः । सन्ततगलितमरन्दस्रोतोनिर्यन्मिलिन्दसन्दोहाम् 11 पाटीरपवनबालकधाटीनिर्यत्परागपिञ्जरिताम् 1 पद्माटवीं भजामः परिमलकल्लोलपक्ष्मलोपान्ताम् ॥ 'बिन्दुस्थानं सुधासिन्धुपञ्चयोन्यः सुरद्रुमाः । तत्रैव नीपश्रेणी च तन्मध्ये मणिमण्टपम् ॥ तत्र चिन्तामणिमयम्.........................।' इति । ब्रह्मरन्ध्रस्थितसहस्रदलपद्ममपि पद्माटवीत्युच्यते । उक्तं च स्वच्छन्दतन्त्रे'तस्मादूर्ध्वं कुलं पद्मं सहस्रारमधोमुख मिति प्रक्रम्य महापद्मवनं चेदं समानं तस्य चोपरीति । ब्रह्माण्डपिण्डाण्डयोरैकरूप्याच्च । इदं चारुणोपनिषद्भाष्ये- 'आण्डीभवजमामुहु'रितिवाक्यव्याख्यानावसरे स्पष्टीकृतम् । कदम्बानां नीपानां वने वसतीति तथा । चिन्तामणिगृहं परितो मणिमण्टपं तत्परितः कदम्बवनम् । तदुक्तं भैरवयामले इत्यादि । कनकरजतप्राकारमध्यभूः सप्तयोजना । तस्माद्द्द्वियोजनोन्नताः कदम्बवृक्षाः सन्तीत्यपि पुराणे स्थितम् । For Private and Personal Use Only महान्ति पद्मानि यस्यां ईदृशी या अटवीवनं तस्यां सम्यक् तिष्ठतीति सा । संस्थायै इति ॥ कदम्बानां वने वसतीति सा । वासिन्यै इति ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy