________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ललितासहस्रनामस्तोत्रम् इति । श्रीमल्लक्ष्मीवद्यन्नगरं निरुपपदमेव नगरपदं विद्यानगरवाचकं तस्य नायिका अधिपतिः । तच्च नगरं द्विविधं एकं तावन्मध्यमेरुशृङ्गस्थम् । तदुक्तं ललितास्तवरत्ने
'तत्र चतुःशतयोजनपरिणाहं देवशिल्पिना रचितम् ।
नानासालमनाशं नमाम्यहं नगरमादिविद्यायाः ॥' इति । तत्र मध्यशृङ्गे । चत्वारि शतानीति विग्रहः । न तु 'चतुःशतमुत्कृति रिति पिङ्गलसूत्र इव चतुरधिक शतमिति । उत्तरश्लोके प्रथमप्राकारस्य प्रथमं रहनपूर्वकषट्शतसख्याकयाजनपरिमित इति परिमाणोक्तिविरोधात् । नानासालैः पञ्चविंशतिभिः प्राकारैरिति तदर्थः । अपरं सकलब्रह्माण्डबहिरूलभागे सुधासागरमध्यगतरत्नद्वीपस्थम् । तदुक्तं रुद्रयामले
'अनेककोटिब्रह्माण्डकाटीनां बहिरूलतः। सहस्रकोटिविस्तीर्णं सुधासिन्धोस्तु मध्यमे ॥ रत्नद्वीपे जगद्द्वीपे शतकोटिप्रविस्तरे । पञ्चविंशतितत्त्वात्मपञ्चविंशतिवप्रकैः ॥
त्रिलक्षयोजनोत्तुङ्गैः श्रीविद्यायाः पुरं शुभम् ।' इत्यादि । विद्यारत्नभाष्ये तु क्षीरसमुद्रमध्येऽप्येकं पुरमस्तीत्युक्तं परन्तु तस्य चतुर्विंशतिप्राकारा इत्यसकृदुक्तं तत्रैकस्य प्राकारस्य न्यूनत्वं गवेषणीयम् । श्रीमन्नगरशब्द: श्रीचक्रपरो वा । 'चक्र पुरं च सदनमगारं नगर गुहेति विश्वाख्योक्तेः । 'कगजदशारे'त्यादिगौडपादीयसूत्रे श्रीपुरस्य चक्रपरत्वेन तद्भाष्ये व्याख्यानाच्च । नैतमृषिमविदित्वा नगर प्रविशेत्', 'देवानां पूरयोध्या', 'अमृतेनावृतां पुरी मित्यादिश्रुतिषु नगरादिपदानां चक्रे प्रयोगदर्शनाच्च 'नगरचक्र-' (?) इत्यादिरुद्रयामलात् ।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥ ७३ ॥ मेरौ तु स्वल्पपरिमाणम्,
'शृङ्गारवर्णवप्रस्योत्तरतः सकलविबुधसंसेव्यम् ।
चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे सदनम् ॥ इति ललितास्तवरत्नात् । गौडपादीयसूत्रभाष्ये तु सर्वेषां चिन्तितार्थप्रदमन्त्राणां निर्माणस्थानं तदेवेति तस्य चिन्तामणिगृहत्वमित्युक्त्वा तन्निर्माणप्रकारो विस्तेरण वर्णितः ।
चिन्तामणिरभीष्टप्रदो मणिस्तैर्निर्मित यद्गृहं तस्यान्तस्तिष्ठतीति सा । अन्तस्थायै इति ॥ पञ्चब्रह्ममय यदासनं ब्रह्मविष्ण्वादिपादयुतं मञ्च तस्मिन् स्थिता । स्थितायै इति ॥ ७३ ॥
For Private and Personal Use Only