SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् इति | स्कान्देऽपि 'जगत्कारणमापन्नः शिवो यो मुनिसत्तमाः। तस्यापि साभवच्छक्तिस्तया हीनो निरर्थकः ॥ इति । श्रीमदाचार्यभगवत्पादेरप्युक्तम् शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ॥ इति । स्वाधीनो वल्लभो ययेति वा । शर्यातिकन्याया: सुकन्यायाः पतिरश्विभ्यां स्वसमानरूप: कृत इति तं विशिष्याजानत्या भगवतीमाराध्यैव स्वाधीनीकृत इति देवीभागवते सप्तमस्कन्धे कथा स्मर्यते 'शरणं ते जगन्मातः प्राप्तास्मि भृशदुःखिता। रक्ष मेऽद्य सतीधर्म नमामि चरणौ तव ॥ इत्यादिप्रार्थनोत्तरम्, 'एवं स्तुता तदा देवी तया त्रिपुरसुन्दरी । हृदि तस्या ददौ ज्ञानं येनाधीनः पतिर्भव ॥' इत्याद्युक्तेः । एवं शच्या इन्द्रप्राप्तिरपि षष्ठस्कन्धोक्तेहोदाहर्तव्या || ७२ ॥ यद्यपि भक्तिमीमासायां 'तत्प्रतिष्ठा गृहपीठवदितिसूत्रे गृहे तिष्ठति पीठे तिष्ठतीति प्रयोगाविशेषादुभयोरप्यधिकरणत्वं मुख्यमेव न तु साक्षात्परम्परासम्बन्धादिरूपतारतम्यपीठभूभागस्यापि गृहन्तर्गतत्वादित्युक्तम तथापि गुहे क्व तिष्ठतीत्याकाङ्क्षानुदयात्पीठमपेक्ष्येतरेषामधिकरणानां तारतम्यमनुभवसिद्धमस्त्येव । तेन न्यायेन मुख्यत्वात्कामेश्वरवःमोत्सङ्ग प्रथममुक्त्वा स्थलान्तराण्याह सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका । सुमेरुमध्यशृङ्गस्थेत्यादिना । सुमेरोहेमाद्रेमध्यश्रङ्गे तिष्ठतीति तत्स्था । शोभने मेरुमध्यशृङ्गेति वा । मेरुपर्वते हि शिवत्रिकोणवत्त्रीणि शृङ्गाणि तेषां मध्ये चतुर्थं शृङ्गमस्ति । तदुक्तं ललितास्तवरत्ने दुर्वासमहामुनिभिः - स जयति सुवर्णशैलः सकलजगच्चक्रसंघटितमूर्तिः । काञ्चननिकुञ्जवाटीकन्दलदमरीप्रपञ्चसङ्गीतः ॥ हरिहयनैर्ऋतमारुतहरितामन्तेष्ववस्थितं तस्य । विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥ मध्ये पुनर्मनोहररत्नरुचिस्तबकरजितदिगन्तम् । उपरि चतुःशतयोजनमुत्तुङ्ग शृङ्गापुङ्गवमुपासे ॥ सुमेरोहेमाद्रेर्यन्मध्यशृङ्ग तस्मिन्तिष्ठतीति सा । शृङ्गस्थायै इति ॥ श्रीमल्लक्ष्मीवद्यन्नगरं श्रीविद्यानगरं तस्य नायिका राज्ञी । नायिकायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy