SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 ललितासहस्रनामस्तोत्रम् सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता। वासनाभरणकुसुमकान्त्यादिकं सर्वमेवारुणं यस्याः । अवद्यानि निन्द्यानि न भवन्तीत्यनवद्यानि सुलक्षणान्यङ्गानि अवयवा यस्याः । सर्वेश्चूडामणिप्रभृतिपादाङ्गुलीयकान्तैः कालिकापुराणोक्तैश्चत्वारिंशता कल्पसूत्रोक्तैरन्यैरपि वाभरणभूषिता । एवं स्थूलं रूपमुक्त्वा तदवस्थितिस्थानान्याह शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ ७२ ॥ शिवकामेत्यादिना । कमनीयत्वात्काम: 'कामः कमनीयतयेत्युक्तेः । कामं यथेच्छं रूपमस्येति वा कामः । ईदृशव्युत्पत्त्यैव मन्मथे कामपदप्रवृत्तेः कालिकापुराणे प्रदर्शनात् 'जगत्सु कामरूपत्वे त्वत्समो नैव विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ॥ इति । प्रज्ञानमेव वा कामः । तथा च श्रुतिः-'यदेतद्धृदयं मनश्चैतत्संज्ञानमज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टितिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति' इति । अत्र प्रज्ञानशब्देन शिव एवोच्यते । स्कान्दे ब्रह्मगीतायां तथैवोपबृंहणदर्शनात् शङ्कराख्यं तु विज्ञानं बहुधा शब्द्यते बुधैः ।' केचिद्धृदयमित्याहुः.........................॥ इत्यारभ्य 'वश इत्यास्तिकाः केचित्सर्वाण्येतानि सन्ततम् । प्रज्ञानस्य शिवस्यास्य नामधेयान्यसंशयम् ॥ इत्यन्तम् । जगत्सिसृक्षावानीश्वरः कामपदवाच्यः । तथा च बृहदारण्यके श्रूयते"आत्मैवेदमग्र आसीदेक एव सोऽकामयतेत्याद्येतावान्वै कामः' इत्यन्तम् । 'शिवश्चासौ कामश्चासावीश्वरश्चेति कर्मधारयः । गुणिरुद्रमदनयोर्निरासाय पदत्रयी । तस्याङ्के सर्वं वसनाभरणादिकं अरुणं यस्याः सा । अरुणायै इति ॥ अनवद्यान्यनिन्द्यान्यङ्गानि यस्याः सा | अङ्गय इति । सर्वैराभरणै भूषिता । भूषितायै इति || शिवात्मको यः कामेश्वर: मन्मथरुद्रादिभिन्नः परशिवात्मकः । तस्याङ्के वामोत्सङ्गे तिष्ठतीति सा । अङ्कस्थायै इति ॥ शिवाभिन्नत्वाच्छिवा । शिवायै इति । स्वाधीनो वल्लभो यस्याः सा । वल्लभायै इति ॥ ७२ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy