________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
53
सौभाग्यभास्कर-बालातपासहितम् इति मेनांप्रत्युक्तेर्दुर्लक्षणान्येवेमानि कथितानीति भ्राम्यता हिमवता सदुःखं पृष्टो नारद उवाच
'हर्षस्थानेऽपि महति त्वया दुःखं निवेद्यते ।
अपरिच्छिन्नवाक्यार्थी मोहं यासि महागिरे ॥ इत्यादिना न जातोऽस्याः पतिरित्यादिवाक्यानामर्थं निर्वान्ते कथितम्
'यत्तु प्रोक्तं मया पादौ स्वच्छायाव्यभिचारिणौ । अस्याः शृणु ममात्रापि वाचोऽथ शैलसत्तम । चरणौ पद्मसङ्काशावस्याः स्वच्छनखोज्ज्वलौ । सुरासुराणां नमतां किरीटमणिकान्तिभिः॥ विचित्रवर्गास्यन्ति स्वच्छायां प्रतिबिम्बतैः । प्रविश्य नाशयिष्यन्ति तेषां हार्द तमोगुणम् ॥ इति ।
पदद्वयप्रभाजालपराकृतसरोरुहा ॥ ७० ॥ पदद्वयस्य चरणयुगलस्य प्रभाजालेन सौष्ठवादिगुणसमूहेन पराकृते निरस्ते सरोरुहे कमले यस्याः सा ॥ ७० ॥
सिजानमणिमीरमण्डितश्रीपदाम्बुजा। सिञ्जानाः भूषणजन्यशब्दविशेषं कुर्वाणा मणयो ययोस्ताभ्यां मञ्जीराभ्यां पादकटकाभ्यां मण्डिता श्रीर्ययोस्तादृशे पदाम्बुजे यस्याः 'नवृतश्चेत्यविकल्पितोऽपि कप्रत्ययः श्रीशब्दस्य नदीसंज्ञानिषेधादेव न भवति । 'ह्रस्वो नपुंसक' इति ह्रस्वस्तु संज्ञापूर्वकविधेरनित्यत्वान्नेह भवति । मण्डिते श्रीयुक्ते पादाम्बुजे यस्या इति त्रिपदबहुव्रीहिर्वा ।
मरालीमन्दगमना महालावण्यशेवधिः ॥ ७१ ॥ मरालो हंसः स्वभावादेव मन्दगतिः । तत्रापि स्त्रीजातीया विशेषत इति मराल्येवोपात्ता । तस्या इव मन्दगमनं यस्याः । महतो लावण्यस्यातिशयितसौन्दर्यस्य शेवधिर्निधिः । 'निधिर्ना शेवधिरित्यग्निपुराणात् । अत एव 'परवल्लिङ्ग द्वन्द्वतत्पुरुषयो रिति पाणिनीयसूत्रात् पुलिङ्गमिदं नाम । तेन 'शेवधये नम' इत्येव प्रयोगो न पाक्षिक: 'शेबध्ये नम' इति ॥ ७१ ॥
पदद्वयस्य य: प्रभाजाल: कान्तिसमूह: तेन पराकृतानि सरोरुहाणि यस्याः सा | सरोरुहायै इति ॥ ७० ॥
सिञ्जाने शब् कुर्वाणे मणिमये मञ्जीरे पादकटके ताभ्यां मण्डिता भूषिता श्री: शोभा ययोरीदृशे पदाम्बुजे यस्याः सा । अम्बुजायै इति ॥
मरालीव हंसीव मन्दं गमनं यस्याः सा । गमनायै इति । महदत्युत्कृष्टं यल्लावण्यं सौन्दर्य तस्य शेवधिनिधिः । शेवधये इति ॥ ७१ ॥
For Private and Personal Use Only