SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 52 ललितासहस्रनामस्तोत्रम् माणिक्यमुकुटाकारजानुद्वयविराजिता ॥ ६८ ॥ माणिक्यमुकुटं अखण्डमाणिक्येन निर्मितं मुकुटं टोपिकानामकं न्युब्जं शिरःप्रावरणं यत्तस्येवाकारो ययोस्तयोर्जानुनोरुरुपर्वणोर्द्वयेन विराजिता ॥ ६८ ॥ इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका । Acharya Shri Kailassagarsuri Gyanmandir इन्द्रगोपाः प्रावृषेण्याः आरक्ततमा कृमिविशेषाः तैः परितः क्षिप्तौ खचितौ यौ स्मरस्य कामराजस्य तूणौ निषङ्गौ ताभ्यां तुल्ये जङ्घे एव जङ्घिके यस्याः । यदि तैः खचितौ स्यातां तदोपमा सम्भाव्येतेत्युपमायामभूतत्वांशध्वनिः । गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ ६९ ॥ गूढ मांसल गुल्फौ पार्णी यस्याः । कूर्मयोः पृष्ठे जयत इति जयिष्णुनी ये प्रपदे पादाग्रे ताभ्यामन्विता । जयिष्णुपदमिष्णुच्प्रत्ययान्तम् । न तु 'ग्लाजिस्थश्चस्तु रिति क्स्नुप्रत्ययान्तं जिष्णुरित्यापत्तेः । इष्णुचो विधानं तु 'भुवश्चेतिसूत्रे चकारस्यानुक्तसमुच्चयार्थकत्वेन वृत्तिकृता व्याख्यानात् । तत्सूत्रे छन्दसीत्यनुवृत्तिस्तु न कार्या । 'भूष्णुर्भविष्णुर्भवितेत्यमरकोशे प्रयोगात् । प्रयोगशरणा वैयाकरणा इति न्यायात् । तस्माद्विष्णुभ्राजिष्णुवज्जयिष्णुरपि साधुरेव ॥ ६९ ॥ नखदीधितिसञ्छन्ननमज्जनतमोगुणा । नखानां पादनखचन्द्राणां दीधितिभिः किरणैः सम्यक् छन्नो लोपितो नमतां ब्रह्मविष्ण्वादिजनानां तमोगुणोऽज्ञानं यस्याः । पादध्यानेनाज्ञाननाश इति भावः । यद्वा अस्याश्चरणयुगस्य नखचन्द्रस्य नमज्जनकिरीटमणिगणच्छायाप्रतिबिम्बबाहुल्येन दीधितीनां विशिष्यभानाभावे तासां तमोनाशाय नमज्जनहृदयान्तः प्रवेश उत्प्रेक्षते कविरिति भावः । तथा च मत्स्यपुराण- पद्मपुराणयोः पार्वत्याः सामुद्रिक लक्षणानि दृष्टवतो नारदस्य वाक्यम् 'न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जिता । उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः ॥ स्वच्छायया भविष्येयं किमन्यद्बहुभाष्यते ।' माणिक्येन निर्मितं यन्मुकुटं टोपिकानामकं न्युज्व (ब्ज ) शिरः प्रावरणं तम्येवाकारो ययोर्जानुनोस्तयोर्द्वयेन विराजिता । विराजितायै इति ॥ ६८ ॥ । इन्द्रगोपाः वर्षाकालोद्भवा आरक्तकृमिविशेषाः । तैः परितः क्षिप्तौ व्याप्तौ यौ स्मरस्य मदनस्य तूणीरौ शरधी तयोरिवाभा ययोस्ते जङ्घिके जङ्घे यस्याः सा । जङ्घिकायै इति ॥ गूढौ मांसल गुल्फौ पादे मणिबन्धौ यस्याः सा गुल्फायै इति । कूर्मपृष्ठे जयन्त इति कूर्मपृष्ठे जयिष्णू ईदृशे प्रपदे पादाग्रे ताभ्यामन्विता । अन्वितायै इति ॥ ६९ ॥ नखानां पादनखानां दीधितिभिर्ज्योत्स्नासदृशैः किरणैः सम्यक् छिन्नो लोपितो नमतां भक्तजनानां तमोगुणः अज्ञानं यस्याः सा । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy