SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 51 सौभाग्यभास्कर-बालातपासहितम् मध्यमाख्यघनावयववान् रोमलतात्वादिति प्रयोगः । मध्यमस्य रोमलतया समर्थनाकाव्यलिङ्गालङ्कारः । यद्यपि 'निराधारो हा रोदिमि कथय कस्याद्य पुरत' इत्यादाविव स्वान्यतरभागानेकवर्णायाः पदमध्ययतेः साधुतायाः समुद्राद्यन्तस्थापरत्वेनैव व्यवस्थितत्वात्पादान्तयते: 'प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्ददायी'त्यादाविवाधारतेत्यस्य मध्ये न साधुत्वं तथापि रातमाण्डव्यादिमुनीनां छन्दःशास्त्रप्रवर्तकानां प्राचामाचार्याणां च मते यतेरनङ्गकारात्तद्रीत्या साधुत्वमुपपद्यते । पैङ्गलं तु कलियुगीयग्रन्थमात्रपरमिति प्रदर्शितं छन्दोभास्करेऽस्माभिः। स्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥ ६६ ॥ स्तनयोर्भारेण गौरवेण दलत इव मध्यस्य दाार्थं कृतः पट्टबन्ध: कनकपट्टिकाभिर्बन्ध एव वलित्रयं यस्याः सेत्युत्प्रेक्षातिशयोक्ती ॥ ६६ ॥ . __अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी। अतिशयेनारुणमरुणारुणं कान्तायाः करतलरागरक्तरक्त इतिवदतिशयस्य वीप्सया द्योतनात् । अरुणवदनूरुवदरुणं वा । कुसुम्भेन रक्तं कौसुम्भं च यद्वस्त्रं तेन भास्वती भासुरा कट्यास्तटी यस्याः ॥ रत्नकिंकिणिकारम्यरशनादामभूषिता ॥ ६७ ॥ रत्नमयीभिः किङ्किणिकाभिः क्षुद्रघण्टिकाभी रम्येण रशनाभिन्नेन दाम्ना सौवर्णमेखलासूत्रेण भूषिता ॥ ६७ ॥ कामेशज्ञानसौभाग्यमार्दवोरुद्वयान्विता। कामेशेनैव ज्ञाते तदेकसाक्षिके सौभाग्यमार्दवे लावण्यकोमलत्वे ययोस्तयोरूर्वोद्वयेनान्विता । स्तनयोर्भारेण गुरुत्वेन दलदिव त्रुट्यदिवस्थितं यन्मध्यं दाढार्थं कृतः पट्टबन्धः कनकपट्टिकाभिर्बन्ध इव वलित्रयं यस्याः सा । त्रयायै इति ॥ ६६ ॥ अरुण इवानूरुरिवारुणं यत्कौसुम्भं कुसुम्भेन रक्तं ईद (दृ)शेन वस्त्रेण भास्वती शोभमाना कट्यास्तटीप्रदेशो यस्याः सा । तट्यै इति ॥ रत्नमयीभिः किङ्किणिकाभिः क्षुद्रघण्टिकाभिः रम्येण रशनात्मकदाम्ना मेखलासूत्रेण भूषिता । भूषितायै इति ॥ ६७ ॥ कामेशेनैव ज्ञाते सौभाग्यमार्दवे सौन्दर्यमृदुत्वे ययोस्ताद(दृ)शोरुद्वयेनान्विता । अन्वितायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy