SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 ललितासहस्रनामस्तोत्रम् रत्नप्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ ६४ ॥ रत्नखचितग्रैवेयेण ग्रीवाभरणचिन्ताकेन चार्थात्सौवर्णेन लोलैश्चञ्चलैरिभावमापन्नैर्मुक्ताफलैश्चान्विता । रत्नमयं ग्रीवासम्बन्धि यच्चिन्ताकं तदधस्तिर्यक्पङ्क्तिरूपेण लम्बमानैर्मुक्ताफलैरित्येकाभरणपरं वा । चिन्ताकमान्ध्रदेशुषु प्रसिद्धम् । ललाटिकापर्याय इति तु कश्चित् । तत्तादृशकोशालेखनाच्चिन्त्यम् । ग्रीवायामेव चिन्ता ध्यानं येषां ते ग्रैवेयचिन्ताकाः । उपर्युपर्यापातत एव ध्यानं ये कुर्वन्ति न पुनर्दहरान्तर्देवानां द्रढयितुं क्षमास्ते मध्यमाधिकारिण इत्यर्थः । लोलाः सतृष्णा अधमाधिकारिणः 'लोलश्चलसतृष्णयो रित्यग्निपुराणानुयाय्यमरः । मुक्ता उत्तमाधिकारिण इत्यर्थः । एषां त्रयाणामपि यानि रत्नभूतान्याफलानि अल्पफलान्यधिकफलानि च । 'आङीषदर्थेऽभिव्याप्ताविति कोशात् । तैरन्विता तद्दाने तत्परा इति प्रकृताप्रकृतोभयविषयकश्लेषः ॥ ६४ ॥ कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी। कामेश्वरस्य प्रेमैव रत्नमणि: रत्नोत्तमः । तत्पणनविषये प्रतिपणभूतौ स्तनौ यस्याः । मणिशब्दो रत्नपर: सन्स्तनयोरेव विशेषणं वा । स्तनरत्ने विक्रीय प्रेमरत्नं क्रीतवतीति भावः । तेन द्विगुणमूल्यदानेन क्रयविक्रयाभ्यां च सुतरां परस्परस्वतापायेन प्रेमपरावृत्त्यभावः पातिव्रत्यातिशयाश्चेति विनिमयालङ्कारेण वस्तुध्वनिः । नाभ्यालवालरोमालिलताफलकुचद्वयी ॥६५॥ नाभिरेवालवालो लतावापश्वभ्रो यस्या रोमाल्यभिन्नलतायास्तस्याः फलभूता कुचद्वयी यस्याः सेति परम्परितरूपकमुत्प्रेक्षासम्बन्धातिशयोक्तिश्चेति सङ्करः ॥ ६५ ॥ लक्ष्यरोमलताधारतासमुन्नेयमध्यमा। लक्षयितुं योग्या लक्ष्या ज्ञाप्यमानेति यावत् । ज्ञायमानस्यैव लिङ्गस्यानुमितिं प्रति कारणत्वात् । लिङ्गज्ञानमात्रस्य कारणतावादेपि लिङ्गज्ञानयोर्विशेष्यविशेषणभावे विनिगमनाविरहेणोभयतोऽपि कारणताया दुष्परिहरत्वात् । अनागतादेरपि बौद्धाकारस्य सत्त्वात् । तथा च गौतमसूत्रम्- 'बुद्धिसिद्धिं तदसदिति । लक्ष्या या रोमलताधारता रोमावलिरूपवल्यावापस्थानत्वम् । आधारतासम्बन्धेन रोमलतैव लिङ्गमिति यावत् । तया सम्यगुन्नेयं प्रमानुमितिविषयो मध्यमं वलग्नं यस्याः । नाभ्यधःप्रदेशो रत्नमयेन ग्रैवेयेण ग्रीवाभरणेन चिन्ताकेन चलोलैर्मुक्ताफलैर्हारभावमापन्नै: अन्विता युता । अन्वितायै इति ॥ ६४ ॥ कामेश्वरस्य प्रेमैव रत्नमणिः । तत्पणने प्रतिपणभूतौ स्तनौ यस्याः स्तन्य इति ॥ नाभिरेवालवालो लता वापगतः यस्या ईदृशी या रोमावलिरूपा लतात्तस्याः फलभूतं कुचद्वयं यस्याः सा । कुचद्वय्यै इति || ६५ ॥ लक्षयितुं योग्या लक्ष्या । ज्ञायमाना । ईदृशी या लोमलताया आधारता तया समुन्नेयं अनुमिति विषयीभूतं मध्यमं मध्यभागो यस्याः सा | मध्यमायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy