SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 49 मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ६२ ॥ स्मितमीषद्धास: सोऽपि मन्दः तस्य प्रभापूरे लावण्यप्रवाहे मज्जतीति मज्जत् । न तु मग्नम् । एकत्र मग्नस्यावयवान्तरसञ्चारविलोपापत्तेः । इदं त्ववयवान्तरसञ्चारार्थं यतते तस्मान्निःसर्तुं नाभिवाञ्छति चेति वर्तमाननिर्देशेन ध्वनितम् । कामः कलाशरीरघटको बिन्दुरग्नीषोमाख्यो रविः । तदुक्तं कामकलाविलासे बिन्दुरहङ्कारात्मा रविरेतन्मिथुनसमरसाकारः। कामः कमनीयतया कला च दहनेन्दुविग्रही बिन्दुः ॥ इति । स एवेश्वरो राजराजेश्वरस्तस्य मानसं यस्याः सा तथोक्ता । मीमांसकमते विभुनोपि मनसो मज्जनकथनेन प्रभापूरस्य निरवधिकाधिक्यं ध्वन्यते ॥ ६२ ॥ अनाकलितसादृश्यचिबुकश्रीविराजिता। वाग्देवतामारभ्याद्य यावद्वर्णयितुं प्रवृत्तेः कविभिरनाकलितं आसमन्तादभिव्याप्य न कल्पितं सम्यक् न लब्धं सरसोपमानस्यालाभात् । अपि तु मुखमुकुरवृन्तरूपयत्किञ्चिदुपमानेन लब्धप्रायं यत्सादृश्यमौपम्यं यस्यास्तादृश्या चिबुकश्रिया विराजिता । कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ ६३ ॥ कामेशेन परमशिवेन बद्धं यन्माङ्गल्यसूत्रं कामोज्जीवनहेतुभूतं सौभाग्याभरणं तेन शोभिता कन्धरा शिरोधिर्यस्याः ॥ ६३ ॥ ___कनकाङ्गदकेयूरकमनीयभुजान्विता। अङ्गं ददातीत्यङ्गदं शरीरघटकमित्यर्थः । 'कनकमेवाङ्गदं येषां तैः सुवर्णेकशरीरकैः । केयूरैर्दोभूषणैश्चतुर्भिः कमनीया रमणीया ये भुजास्तैरन्विता युक्ता । अङ्गदकेयूरयोराकृतिवैलक्षण्यमाश्रित्याभरणद्वयपरं वा व्याख्येयम् । अतएव ब्रह्मोत्तरखण्डे सप्तमेऽध्याये शिवध्यानप्रकरणे प्रयोग: - 'दधानं नागवलयकेयूराङ्गदमुद्रिका' इति । अन्यत्रापि 'केयूराङ्गदहारकङ्कणमुखालङ्कारविभ्राजितामिति । 'केयूरमङ्गदं दोभूष'त्यग्निपुराणं तु भुजभूषणत्वेनानुगमय्य कथनपरम् । तदनुसारित्वाद् अमरसिंहोऽपि तत्पर एवेत्यदोषः । मन्दस्मितमीषद्धासः तस्य प्रभापूरे लावण्यप्रवाहे मज्जत् कामेशमानसं यस्याः सा । मानसायै इति ॥ ६२ ॥ अनाकलितं अलब्धं कविभिः सादृश्यं यस्याश्चिबुक श्रियः तया विराजिता शोभमाना । विराजितायै इति ॥ ___ कामेशेन बद्धं यन्माङ्गल्यसूत्रं सौभाग्याभरणं तेन शोभिता कन्धराग्रीवा यस्याः सा । कन्धरायै इति ॥ ६३ ॥ ___ कनकमयैरङ्गदैः केयूरैः बाहुभूषणैः कमनीया: सुन्दरा ये भुजा: चतुःसंख्याः तैरत्विता युता । अन्वितायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy