SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 48 www.kobatirth.org ललितासहस्रनामस्तोत्रम् इतिलक्षणलक्षितस्य ताम्बूलस्यामोदं परिमलं समाकर्षन्ति स्वस्वाभिमुख्येन प्रसारयन्ति या दिशः प्राच्याद्या दश देवतास्ता एवान्तं परिधानं यस्याः सा । ताभिर्देवताभिरम्बामुखकमलविगलत्ताम्बूलकवलनापेक्षिणीभिरपि तदलाभात्प्रथमनिःसृतपरिमल एवाहंपूर्विकया यौगपद्येन समाकृष्य सर्वाभिर्गृह्यते । तल्लिप्सयैव हि ता आवृत्य परितोऽदृश्यवेषेण स्थिता इति तात्पर्यगत्योत्प्रेक्षाध्वननादिह वस्तुनालङ्कारध्वनिः | अथवा यस्या वीटिकामोदेन परिमलातिशयेन समाकर्षीणि सुरभिलानि दिगन्तराणि सेति । इत्यमरः ॥ ६१ ॥ Acharya Shri Kailassagarsuri Gyanmandir 'आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् । समाकर्षी तु निर्हारी सुरंभिर्घाणतर्पणः ॥ निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी । निजस्य स्वीयस्य स्वतः शोभनस्य ब्रह्मविषयकस्य वालापस्य वर्णात्मकशब्दस्य माधुर्येण मञ्जुलतया विशिष्य निःशेषेण भर्त्सिता तिरस्कृता कच्छपी वीणा या सा । समासान्तविधेरनित्यत्वा घृतश्चेति न कप् । कच्छपस्य स्त्री कच्छपीति तु कश्चित् । तत्' कच्छपी महतीवीणेत्यादिकोशदर्शनात् । अमरकोशशेषोऽपि वीणामधिकृत्याह 'विश्वावसोः सा बृहती तुम्बरोस्तु कलावती । सा नारदस्य महती सरस्वत्यास्तु कच्छपी ॥' इति । लोके हि वर्णाभिव्यक्तेरभावेऽपि षड्जादिस्वराभिव्यक्तिमात्रेण ज्ञातचरानेव वर्णानुन्नीय माञ्जुल्यमात्रलिप्सयैव हि वीणानादे रुचिरित्यनुभवः । कच्छप्यास्तु सारस्वतत्वादेव शुकसारिकादिवदीषत्स्पष्टवर्णाभिव्यक्तिरप्यस्ति । स्पष्टतरवर्णाभिव्यक्तितदधिकमाधुर्यशालिनः संल्लापस्य तु सर्वातिशयत्वे नास्ति विवाद इति अत एव सौन्दर्यलहर्याम् 'विपञ्च्या गायन्त्या विविधमपदानं पशुपतेस्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैमाधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणीं निचुलयति चोलेन निभृतम् ॥' इति । निजस्य स्वस्य यः संलापः वर्णमयशब्दोच्चारः तस्य माधुर्येण विनिर्भत्सिताविशेषेण तिरस्कृता कच्छपी वीणा यया सा । कच्छप्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy