SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् ___47 मूलाधारादिभ्यः परापश्यन्त्यादिक्रमेण वैखर्यात्मना मुखान्निःसृतासती षोडशीविद्या पश्चात्कर्णात्कर्णोपदेशेन विसृताभूत् । तत्र शब्दब्रह्मरूपस्य बीजस्योच्छूनतावस्था परा स्फुटितावस्था पश्यन्ती मुकुलिताव्यक्तं दलद्वयं मध्यमा । सम्यग्विकासेन प्रसृतं मिथं संसृष्टमूलं दलद्वयं वैखरी | तदेव चाङ्करपदवाच्यम् । तद्दशायां दन्तसाम्यमप्यस्त्येव । षोडशाक्षराङ्कराणां प्रत्यङ्करं दलद्वयाद् द्वात्रिंशद्दन्तसंख्यासम्पत्तिरपि । अतस्तान्यङ्कराण्येव मूर्तिमन्ति दन्तरूपाणीति तात्पर्यम् । द्विजशब्दश्लेषण समासोक्त्यलङ्कारेणार्थान्तरमपि । वेदादयो विद्या हि ब्राह्मणमेवाश्रित्य तिष्ठन्ति । 'विद्या ह वै ब्राह्मणमाजगाम' इति श्रुतेः । तेनाप्रतिष्ठाः सत्योऽन्यत्र विस्तरं प्राप्नुवन्ति । अतोहेतोाह्मणा एव विद्याङ्कुररूपाः । ततश्च शुद्धा निर्मला सती विद्याङ्कुराकारा च सती यावद् द्विजानां ब्राह्मणानां पङ्कितस्तद्वयेनोज्ज्वला । ब्राह्माणानामप्यम्बामुखान्निःसृतत्वेन त एव मूर्तिमन्तो दन्ता इति तात्पर्यम् । यद्वा 'शुद्वविद्या च बाला च द्वादशार्धा मतङ्गिनी'त्यादिक्रमेणानुत्तरपर्यन्ता द्वात्रिंशद्दीक्षास्तन्वेषु प्रसिद्धास्तद्विजपदिकपदेनोच्यन्ते । दीक्षाया अपि जन्मरूपत्वात् । उपनयनापेक्षया द्वितीयत्वाच्च । 'दीक्षा जन्म तृतीयं स्यादिति वचनस्य मातुरुदराज्जन्ममेलनाभिप्रायकत्वेनाविरोधात् । शुद्धविद्या त्र्यक्षरी सैवाङ्कुरमारम्भो यस्याः सा शुद्धविद्याङ्कुरा । अकारेत्यत्राङपरतोऽकारप्रश्लेषेणाङ्करयोरभिविध्यनुत्तरवाचकत्वेनानुत्तरपर्यन्तेत्यर्थः । शुद्धविद्याङ्कुरा च सा आकारा च सा द्विजपङ्कितश्चेति कर्मधारयोत्तरं तस्या द्वयेनोज्ज्वला भासमानेति विग्रहः । सम्प्रदायक्रमायातद्वात्रिंशद्दीक्षितान्तःकरणैः पुरुषधौरेयैरेव लभ्या नान्यैरिति भावः । कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ॥ ६१ ॥ 'एलालवङ्गकर्पूरकस्तूरीकेसरादिभिः । जातीफलदलैः पूगैर्लाङ्गल्यूषणनागरैः॥ चूर्णः खदिरसारैश्च युक्ता कर्पूरवीटिका ।' तेनोज्ज्वला क्षोभमाना अखिला विद्याः । अङ्कुराकारेण संक्षेपरूपेण देवतामुखे दन्तात्मकतया स्थिता इति भावः । उज्ज्वलायै इति ॥ 'एलालवङ्गकर्पूरकस्तूरीकेश (स)रादिभिः । जातीफलैर्दलैः पूगैर्लाङ्गल्यूषणनागरैः ॥ चूर्णैः खादिरसारैश्च युक्ता कर्पूरवीटिका ।' इति प्रसिद्धकर्पूरवीटिकायास्ताम्बूलस्यामोदं स्वाभिमुखेन सम्यगाकर्षन्ति इत्याकर्षाः ईदृशा दिगन्तरस्था देवता यस्याः सा । दिगन्तरस्था देवताः परिमललुब्धाः स्वाभिमुख्येन परिमलमाकर्षन्तीत्यर्थः । अन्तरायै इति ॥ ६१ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy