SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 ललितासहस्रनामस्तोत्रम् ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ५९॥ ताटङ्कयुगलं कर्णाभरणद्वयं तस्य स्वर्णादिभवस्य प्रकृतेऽभावात् । अभूततद्भावे चिः । तथा सम्पद्यमाने तपनस्य सूर्यस्योडुपस्य चन्द्रस्य च मण्डले यस्याः । तदुक्तम् सूर्यचन्द्रौ स्तनौ देव्यास्तावेव नयने स्मृतौ । उभौ ताटङ्कयुगलमित्येषा वैदिकीश्रुतिः ॥ ५९॥ इति || ५९ ॥ पद्मरागशिलादर्शपरिभाविकपोलभूः। पद्मरागशिलैवातिनिर्मलत्वात्प्रतिबिम्बग्राहित्वाच्चादर्शो दर्पणं तं परिभवत्यवजानाति । ततोप्यतिशयेन कामेश्वरप्रतिबिम्बग्राहित्वाच्छोणत्वाच्च । ईदृशी कपोलभूगण्डभित्तिर्यस्याः । नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ६० ॥ नवां नूतनां विद्रुमबिम्बयोः पक्वग्रवालतुण्डीफलयोः श्रियं कान्तिं न्यक्कुरुतोऽध: कुरुतस्ततोऽप्याधिक्येनौन्नत्यात् तादृशौ रदनच्छदावौष्ठौ यस्याः । सा भवति शुद्धविद्या येदन्ताहन्तयोरभेदमति रित्युक्तेर्दत्तात्रेयसंहितादिषु श्रीविद्यायास्तादृशाभेदपरत्वेन व्याख्यानात्मैव शुद्धविद्योच्यते । ॥ ६ ॥ शुद्धविद्याङ्कराकारद्विजपङ्क्तिद्वयोज्ज्वला। शुद्धाया अविद्यामलप्रतिस्पर्धिन्या विद्यायाः षोडशीरूपाया अङ्कराणामिवाकार: स्वरूपं यस्य तेन द्विजपङ्कितद्वयेन दन्तपङ्कितयुगलेनोज्ज्वला शोभमाना । श्रीमातुर्हि ___ ताटङ्कयुगलं कर्णाभरणद्वयां (यं) तथाभूते तपनोडुपयोः सूर्यचन्द्रयोर्मण्डले यस्याः सा । मण्डलायै इति ॥ ५९॥ पद्मरागशिलात्मको य आदर्शः तं परिभावति अवजानाति । ईदृशी कपोलभूर्गण्डप्रदेशो यस्याः सा | भुवे इति । नवां नूतनां विद्रुमबिम्बयो पक्वप्रवालतुण्डीफलयोः श्रियं कान्तिं न्यक्कुरुतः अधःकुरुतो दशन(रदन)च्छदौ ओष्ठौ यस्या सा । छदायै इति ॥ ६० ॥ ____ शुद्धाः दोषरहिताः याः विद्या: मोक्षसाधनीभूतवेदादयो मन्त्राद्याश्च तासां अङ्कुराः । यथाहि विस्तृतस्य वृक्षस्य संक्षिप्तं रूपं अङ्कुरः एवं विद्याङ्कुराकारा: ये द्विजाः दन्तास्तेषां यत्पङ्क्तिद्वयं For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy