SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५६ ॥ मुखमेव चन्द्र इति रूपकं तत्कलङ्कत्वेन तुल्यो मृगनाभे: कस्तूर्या विशेषक: तिलको यस्यास्तथोक्ता । कलङ्कतिलकयोरुपमानोपमेयभावः || ५६ || वदनस्मरभाङ्गल्यगृहतोरणचिल्लिका । वदनमेव स्मरस्य कामराजस्य माङ्गल्यगृहं तस्य तोरणो बहिर्द्वारमेव, चिल्लिका भ्रूलता यस्या: । 'चिल्लिका भ्रूलतायां स्यादिति नामकल्पद्रुमः । 'आभुग्नमसृणचिल्ली' ति ललितास्तवरत्नं च । परम्परितरूपकम् । प्राचीनपाठप्रयोगाच्चिल्लीशब्द एव भ्रूपरो ज्ञेयः । वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ५७ ॥ 45 वक्त्रलक्ष्म्या मुखकान्तेः परीवाहे जलपूरे चलद्भ्यां चञ्चलाभ्यां मीनाभ्यां तुल्ये लोचने यस्याः । मीनस्येवेक्षणं यस्या इति वा । मीनानां वीक्षणमात्रे शिशुनामभिवृद्धिः न तु स्तन्यदानादिनेति प्रसिद्धेः । तेन कटाक्षमात्रेण भक्तपोषकेत्यर्थः ॥ ५७ ॥ नवचम्पकपुष्पाभनासादण्डविराजिता । ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ५८ ॥ नवं नूतनं चम्पकस्य पुष्पं न तु केवलकलिका । ईषद्विकसिता गन्धफलीत यावत् । तेन तुल्यो यो नासादण्डस्तेन विराजिता तारा । मङ्गलाख्या शुक्लाख्याच तारकादेवीविशेषो वा । तयोः कान्तिं तिरस्करोति जयतीति तथा । तादृशेन नासाभरणेन माणिक्यमौक्तिकादिभ्यां घटितेन भासुरा शोभमाना ॥ ५८ ॥ कदम्बमञ्जरीक्लृप्तकर्णापूरमनोहरा । कदम्बमञ्जर्या नीपवल्लर्या क्लृप्तः कल्पितः कर्णपूरः कर्णोपरिभागे अवस्थाप्य - मानः शेखरस्तेन मनोहरा रमणीया । मुखरूपचन्द्रस्य कलङ्काभः कलङ्कसदृशो मृगनाभे: कस्तूर्याविशेषकस्तिलको यस्याः सा । विशेषकायै इति ॥ ५६॥ वदनमेव स्मरस्य मन्मथस्य माङ्गल्यगृहं तस्य तोरणो बहिर्द्वारं तदेव चिल्लिकाभूर्यस्या सा । चिल्लिकायै इति । वक्त्रस्य मुखस्य यः (या) लक्ष्मीः कान्तिः तस्या परीवाहे (पू) रे चलद्भ्यां चञ्चलाभ्यां मीनाभ्यां तुल्ये लोचने [ चल ]द्भिश्चञ्चलैमनैस्तुल्यानि लोचनानि यस्याः सा । लोचनायै इति ॥ ५७ ॥ नवं नूतनं यच्चम्पकपुष्पां (पं) ईषद्विकसित (तं) तेन तुल्येन नासादण्डेन नासिकावंशेन विराजिता । विराजितायै इति ॥ For Private and Personal Use Only ताराया नक्षत्रस्य या कान्तिः तां स्वकान्त्या तिरस्करोति यत्तादृशेन नासाभरणेन भासुरा शोभमाना । भासुरायै इति ॥ ५८ ॥ कदम्बस्य मञ्जर्या पुष्पेण क्लृप्तः कल्पितः कर्णपूरः कर्णोर्ध्वे स्थापितः शेखरः तेन मनोहरा रमणीया | मनोहरायै इति ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy