________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
44
ललितासहस्रनामस्तोत्रम् कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ५५ ॥ कुरुविन्दमणय: पद्मरागाख्याः शोणाः कामानुरागादिबहुगुणशीला: रत्नविशेषा । तदुक्तं गरुडपुराणे रत्नाध्याये
'तस्यास्तटेषूज्ज्वलचारुरागा भवन्ति तोयेषु च पद्मरागाः ।
सौगन्धिकोत्थाः कुरुविन्दजाश्च महागुणाः स्फाटिकसम्प्रसूताः॥ सौगन्धिककूरविन्दस्फटिकाद्यन्तर्गतपाषाणादिप्रभेदास्तद्गर्भे पद्मरागमणीनामुत्पत्तिः । तेषु कुरुविन्दोद्भवेष्वेव ।
'बन्धूकगुञ्जाशकलेन्द्रगोपजपाशशासृक्समवर्णशोभाः।
भाजिष्णवो दाडिमबीजवर्णास्तथापरे किंशुकवर्णभास ।' इति । अत्र तस्या इत्यस्य रावणगङ्गाया इत्यर्थः ।
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः ।
पद्मरागा घनाकारं बिभ्राणाः सुस्फुटार्चिषः ॥ इत्युपक्रमात् । गुणातिशयोऽपि तत्रैव कथितः -
'कामानुरागः कुरुविन्दजेषु शनैर्न तादृक् स्फटिकोद्भवेषु ।
माङ्गल्ययुक्ता हरिभक्तिदाश्च वृद्धिप्रदास्ते स्मरणाद्भवन्ति ॥ इति । ईदृशानां श्रेण्या पङ्क्त्या कनता दीप्यमानेन कोटीरेण मुकुटेन मण्डिता । ईदृशविशेषणविशिष्टां देवीं ध्यायतां भक्त्याद्यभिवृद्धिर्भवतीति ध्वनिः । कुरुविन्दाश्च मणयश्चेति द्वन्द्व इति तु कश्चित् । तद्रलोत्पत्त्यज्ञानात् ॥ ५५ ॥
___अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता।
चन्द्रस्याष्टमी कला यस्यां तिथौ वर्धते ह्रसति वा सा तिथिरष्टमीत्युच्यते । तत्सम्बन्धी यश्चन्द्रोऽष्टकलायुक्तः समचन्द्रार्धमिति यावत् । तद्वद्विभ्राजता विराजमानेन अलिकस्थलेन ललाटदेशेन शोभिता । 'ललाटमलिकं गोधिरि'त्यग्निपुराणीयकोशात्।
कुरुविन्दमणय: पद्मरागाख्याः रक्तमणयः । तेषां श्रेण्या पक्त्या कनत्ता दीप्यमानेन कोटीरेण मकुटेन मण्डिता भूषिता । मण्डितायै इति ॥ ५५ ॥
अष्टमी सम्बन्धी यश्चन्द्रः अर्धवृत्तरूपः तद्वद्विभ्राजता विराजमानेनालिकस्थलेन ललाटप्रदेशेन शोभिता । शोभितायै इति ॥
For Private and Personal Use Only