SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् इति । अथायुधमन्त्रोद्धारः । रश्च अगश्च स्वं च तेषां समाहारो रागस्वम् अगशब्देन स्थाणुर्हकारः | 'हः शिवो गगनं स्थाणुरिति कोशात् । स्वं सबिन्दुक ईकारः । तेन रेफहकारेकारबिन्दुसमाहारो रूपं सूक्ष्माख्यं यस्य पाशस्येत्यादि । हकारोत्तरमिह रेफोsवगन्तव्यः पः सम्प्रदायात् । क्रोच धश्च आ च क्रोधाः । तदुपरि श्रूयमाणः कारप्रत्ययो द्वद्वान्तत्वात् प्रत्येकं सम्बध्यते । क्रोकारधकाराकारा इत्यर्थः । नो ज्ज्वलाः अनुस्वारेण शोभमानाः । कौ शेत इति कुशः अंकाराभिन्नः कुशोऽङ्कुशः । मन इति थकारस्य संज्ञा । थकाराधिकारे 'दक्षनासाधिपो इति कोशात् । कोदण्डोऽनुस्वारः 'अंकारश्चञ्चुकोदण्ड' इति कोशात् । मनोरूपः कोदण्डः थकाराभिन्नोंकारः क्रोधाकारेत्यादिनामसु दकाररेफककारलकारयकारसकारवकारा आ ई ऊ स्वराः सबिन्दुका विवक्षिताः । इतरदविवक्षितम् । तेषां यथासम्प्रदायं योगे बागबीजानि सिध्यन्तीति । आयुधबीजविभागस्तु गुरुमुखादव मन' गन्तव्यः । 43 निजारुणप्रभापूरमज्जद् ब्रह्माण्डमण्डला ॥ ५४ ॥ निजः स्वकीयो योऽरुणप्रभाया रक्तिमकान्तेः पूरः प्रवाहस्तस्मिन्मज्जन्ति तदभेदेन भासमानानि ब्रह्माण्डानां मण्डलानि यस्याः सा । प्रातःकाले सौभाग्यादिन्यासविशेषेषु यादृशं ध्यानं विहितमस्ति तादृशरूपवतीत्यर्थः ॥ ५४ ॥ चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा । इदानीं अग्निकुण्डापादानकस्थूलरूपप्रादुर्भावे शीर्षस्य प्रथमत्वाद्देवीमुखाभिन्नवाग्भवकूटस्य पञ्चदश्यां प्रथमत्वाच्व: शीर्षमारभ्यैव पादपद्मान्तं वर्णयितुमारभते । चम्पकादिशब्दा वृक्षे शक्ता अपि तत्तत्पुष्पेष्वपि निरूढलाक्षणिकाः । द्विहीनं प्रसवे सर्व मित्यग्निपुराणकोशात् । चम्पकानि चेत्यादि द्वन्द्वः । सौगन्धिकानि कह्लाराणि तैः पुष्पैः लसन्तः शोभमानाः कचा: शिरोरुहा यस्याः सा । लसच्छब्दोऽन्तर्भावितण्यर्थो वा । तेन पुष्पेषु स्वीयपरिमलापादकाः कचा इति फलति । तदुक्तम् 1 'जानासि पुष्पगन्धान् भ्रमर त्वं ब्रूहि तत्त्वं मे । देव्याः केशकलापे गन्धः केनोपमीयेत् ॥ इति । च्छा सः स्वं रूपं यस्य पाशस्य तेनाढ्या । आढ्यायै इति च ॥ क्रोध निजः स्वकीयः यः अरुणप्रभाया: लोहि [त ] कान्ते पुरः प्रवाहः तस्मिन्मज्जन्ति निमग्नानि ब्रह्माण्डाना मण्डलानि यस्याः सा । मण्डलायै इति ॥ ५४ ॥ For Private and Personal Use Only चम्पकादिपदैर्निरूढलक्षणया तत्पुष्पाणि गृह्यन्ते । तैर्लसन्तः शोभमानाः कचा: शिरोरुही (हा ) यस्याः । कचायै इति ||
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy