SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ललितासहस्रनामस्तोत्रम् मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका । संकल्पविकल्पात्मकक्रियारूपं मन एव रूपं यस्य तादृशमिक्षुरूपं पुण्ड्रेक्षुमयं कोदण्डं धनुर्यस्या वामोर्ध्वकरे सा तथोक्ता । पञ्चसंख्यानि तन्मात्राणि शब्दादीनि विषयाः । तदेव तन्मात्रं पञ्चभूतानामेतदेव रूपमित्यर्थः । तदुक्तं महास्वच्छन्दसंग्रहे 'भूतमात्रस्वरूपोऽर्थविशेषाणां निरूपकः । शब्दस्तु शब्दतन्मात्रं मृदूष्णकविनिश्चयः॥ विशिष्टस्पर्शरूपश्च स्पर्शतन्मात्रसंज्ञकः । नीलपीतत्वशुक्लत्वविशिष्टं रूपमेव च ॥ रूपतन्मात्रमित्युक्तं मधुरत्वाम्लतायुतम् । रसतन्मात्रसंशं तु सौरभ्यादिविशेषतः॥ गन्धः स्याद्गन्धतन्मात्रं तेभ्यो वै भूतपञ्चकम् । इति । एतानि तन्मात्राण्येव सायकाः बाणा यस्या दक्षोर्ध्वकरे सा तथोक्ता । तदुक्तं वामकेश्वरतन्त्रे- 'शब्दस्पर्शादयो बाणा मनस्तस्याभवद्धनुरिति । कादिमतेऽपि बाणास्तु त्रिविधाः प्रोक्ताः स्थूलसूक्ष्मपरत्वतः । स्थूलाः पुष्पमयाः सूक्ष्मा मन्त्रात्मानः समीरिताः ॥ पराश्च वासनायां तु प्रोक्ताः स्थूलान् शृणु प्रिये । कमलं त कैरवं .रक्तं – कलारेन्दीवरे तथा ॥ सहकारकमित्युक्तं पुष्पपञ्चकमीश्वरि ।' इति । तेषां नामानि तु कालिकापुराणे 'हर्षणं रोचनाख्यं च मोहनं शोषणं तथा । मारणं चेत्यमी बाणा मुनीनामपि मोहदा ॥' इति । ज्ञानार्णवे तु 'क्षोभणं द्रावणं देवी तथाकर्षणसंज्ञकम् । वश्योन्मादौ क्रमेणैव नामानि परमेश्वरि ॥ इति । तन्त्रराजे तु 'मदनोन्मादनौ पश्चात्तथा मोहनदीपनौ । शोषणश्चेति कथिता बाणाः पञ्च पुरोदिताः॥ मन एव रूपं यस्य ईदृशं इक्षुमयकोदण्डस्य धनुर्यस्याः साः । कोदण्डायै इति ॥ पञ्चसंख्या तन्मात्राणि शब्दादिविषयाः तान्येव सायका: शरा यस्याः सा । सायकायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy