________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर- बालातपासहितम्
'स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहा । लौहित्यं तद्विमर्शः स्यादुपास्तिरिति भावना ॥'
Acharya Shri Kailassagarsuri Gyanmandir
इति । बामकेश्वरतन्त्रेऽपि स्वयं हि त्रिपुरादेवी लौहित्यं तद्विमर्शनमिति । ईदृशप्रकाशविमर्शसामरस्यापन्नाया देव्यास्त्रीणि रूपाणि स्थूलं सूक्ष्मं परं चेति । करचरणादिविशिष्टं स्थूलम् । मन्त्रमयं सूक्ष्मम् । वासनामयं परम् । तदुक्तं योगवासिष्ठे भगवता
'सामान्यं परमं चेति द्वे रूपे विद्धि मेऽनघ । पाण्यादियुक्तं सामान्यं यत्तु मूढा उपासते ॥ परं रूपमनाद्यन्तं यन्ममैकमनामयम् । परमात्मादिशब्देनैतदुदीर्यत ॥
ब्रह्मात्मा
41
इत्यादि । 'सामान्यं द्विविधं प्रोक्तं स्थूलसूक्ष्मविभेदत' इत्यन्यत्रापि । यत्तु गङ्गादीनां जलादिमयं रूपं तत्स्थूलतरं चतुर्थम् । सूक्ष्मस्यापि पुनस्त्रैविध्यं वक्ष्यते । तेषु स्थूलं निर्दिशति-चतुरिति । ध्यानोक्तावयवमन्त्रोपलक्षणमेतत् । बाहुमात्रपरमेव वा । रागस्वरूपपाशाढ्या क्रोधाकाराङ्कशोज्ज्वला ॥ ५३ ॥
'इच्छाशक्तिमयं पाशमङ्कुशं ज्ञानरूपिणम् । क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥'
बाहुप्रसङ्गादायुधानां त्रिविधं रूपमाह - रागेति चतुर्भिः । रागोऽनुरक्तिश्चित्तवृत्तिविशेषः । इच्छेव वा । राग एव स्वं वासनामयं रूपं यस्य स्थूलस्य पाशस्य तेनाढ्या वामाधः करेत्युक्ता । क्रोधो द्वेषाख्या चित्तवृत्तिः । आकारशब्दादर्शआद्यचि आकारं सविषयकं ज्ञानमित्यर्थः । घटोऽयमित्याकारकं ज्ञानमित्यादौ विषयपरत्वेनाकारपदप्रयोगात् । क्रोधपदमेव ज्ञानपरमिति तु कश्चित् । तत्क्रोधोङ्कुश इति श्रुतिविरोधाद्वक्ष्यमाणस्मृतावेव ज्ञानपदस्य क्रोधपरत्वसम्भवादयुक्तम् । तस्मात् द्वेषज्ञानोभयात्मकेनाङ्कुशेनोज्ज्वला शोभमानदक्षाध: करा । तथा चोक्तं पूर्वचतु:शतीशास्त्रे पाशाङ्कुशौ तदीयौ तु रागद्वेषात्मकौ स्मृतौ इति । तन्त्रराजेऽपि वासनापटले'मनोभवेदिक्षु धनुः पाशो राग उदीरितः । द्वेष: स्यादङ्कुशः पञ्चतन्मात्रा पुष्पसायकाः ॥"
।
इति । उत्तरचतुःशतीशास्त्रे तु
For Private and Personal Use Only
इत्युक्तम् ॥ ५३ ॥
रागः इच्छा सः स्वं रूपं यस्य पाशस्य तेनाढ्या । आढ्यायै इति च ॥ क्रोधो द्वेषः स आकारो अस्य अङ्कुशस्य तेन उज्ज्वला शोभमाना । उज्ज्वलायै इति ॥ ५३ ॥