SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 ललितासहस्रनामस्तोत्रम् इत्यन्तेन । ब्रह्माण्डपुराणेऽपि भण्डासुरपीडितं शक्रं निर्वर्ण्य 'कुण्डं योजनविस्तार सम्यकृत्वातिशोभनमित्यादिना चिदग्निकुण्डे देवैः कृतं स्वस्वमांसहोममुक्त्वोक्तम् 'होतुमिच्छत्सु देवेषु कलेवरमनुत्तमम् । प्रादुर्बभूव परमं तेजःपुञ्जमयं महत् ॥ कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् । तन्मध्यतः समुदभूच्चक्राकारमनौपमम् ॥ तन्मध्यतो महादेवीमुदयार्कसमप्रभाम् ।' इत्यारभ्य 'तां विलोक्य महादेवी देवाः सर्वे सवासवाः । प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिकाम्॥ इत्यन्तम् । नित्याया उत्पत्त्यसम्भवमाशंक्य समाधत्ते-देवकार्येति । देवानां कार्याणि भण्डासुरमहिषासुरवधादीनि तदर्थमुद्यता आविर्भूता । प्रकृतिविकृतिभावाभावेन तादर्थ्यचतुर्थ्यन्तेन सह समासायोगेऽपि शेषषष्ठ्या समासः । तदुक्तं मार्कण्डेयपुराणे देवानां कार्यसिध्यर्थमाविर्भवति सा यदा। उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥ इति । कूर्मपुराणेऽपि हिमवन्तंप्रति भगवत्योक्तम् अहं वै याचिता देवैः संस्मृता कार्यगौरवात् । विनिन्ध दक्षं पितरं महेश्वरविनिन्दकम् ॥ धर्मसंस्थापनार्थाय तवाराधनकारणात् । मेनादेहात्समुत्पन्ना त्वामेव पितरं श्रिता ॥' इत्यादि ॥ ५२ ॥ एवं चिद्रूपत्वेन प्रकाशात्मकतामुक्त्वा विमर्शात्मकं रूपमाह उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता। उद्यदिति । भानूनां किरणानां सहस्रं यस्य स भानुसहन: सूर्यः । तस्योद्यत्त्वं . विशेषणम् । वर्तमानकालिकोदयवत्त्वं तदर्थः । वर्तमाने लट: शतृशानचोर्विधानात् । तेन लौहित्यं ध्वन्यते । उद्यतां भानूनां रक्तसूर्याणां यत्सहनमानन्त्यं तेन तुल्येति वा । अतिलोहितेति फलितोऽर्थः । उक्तं हि स्वतन्त्रतत्रे उद्या (द्यता) भानूनां रक्तसूर्याणां यत्महनं तदिव आभा यस्याः । आभायै इति च ॥ चतुर्भिर्बाहुभिः सम्यगतिसुन्दरतया अन्विता युता । अन्वितायै इति च ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy