________________
Shri Mahavir Jain Aradhana Kendra
इति पृष्टे,
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
इत्यारभ्य
'प्रथमं श्रृणु देवेशि ब्रह्मा सृष्टिकरो यदा । निश्चेतनोऽथ देवेशीं तदा त्रिपुरसुन्दरीम् ॥ समाराध्याभवत्कर्ता सृष्टेस्तु परमेश्वरि । ब्रह्माणं तं समाराध्य तपसा महता प्रिये ॥ शक्रोऽभूद्देवराजोयं पूर्वस्यां दिशि पालकः । तदा प्रसन्ना त्रिपुरा पूर्वसिंहासने स्थिता ॥
इत्यादिना । तेषां पञ्चसिंहासनानामीश्वरीमित्यनेन मन्त्रोद्धारः |
एवं त्रिभिर्नामभिः सृष्टिस्थितिलयकर्तृत्वेन ब्रह्म लक्षयित्वा प्रकृतपुराणोक्तमातृप्रादुर्भावादिकथाक्रमं प्रायेणाश्रयन्नेव तिरोधानानुग्रहापरपर्यायबन्धमोक्षप्रदत्वेनापि सप्रपञ्चं लक्षयितुमुपक्रमते
Acharya Shri Kailassagarsuri Gyanmandir
चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥ ५२ ॥
चिदग्नीत्यादिना शिवशक्त्यैक्यरूपिणीत्यन्तेन । चित्केवलं ब्रह्म तदेवाग्निकुण्डं अविद्यालक्षणतमोविरोधित्वात् । 'अन्तर्निरन्तरनिरिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्नावित्यादौ चिद्वह्निरूपकप्रयोगदर्शनात् । शक्तिसूत्रमपि - चिद्वह्निरवरोहपदे छन्नोपि चिन्मात्रयामेयेन्धनं पुष्यती'ति । तद्भाष्यं च चितिरेव विश्वग्रसनशीलत्वाद्वह्निरिति । त सम्यक् अभेदेन भूतस्थितचैतन्याख्यधर्मरूपेणावस्थिता न तु जाता । 'तत्र जातः, तत्र भवः' इति पाणिनिना भूजनिधात्वोर्भेदेन कीर्तनात् शक्तिशक्तिमतोरभेदाच्च । तदुक्तं संक्षेपशारीरकाचार्यैः- 'चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यते इति । यद्वा प्रसिद्धमग्निकुण्डमेव चित् । चिदग्निपदयोरेव वोपमितसमासः । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुने'त्यादौ रूपकदर्शनात् । तस्य कुण्डात्सम्भूता प्रादुर्भूता उत्पन्नेत्यर्थः । 'धुन्धुमारस्ततोऽभवदि'त्यादौ भवतेरुत्पत्तावपि प्रयोगात् । तदुक्तं रेणुकापुराणे - रेणुनामाभवत्पुत्र इक्ष्वाकुकुलवर्धनः इत्यारभ्य तस्य तपो देवीवरं च वर्णयित्वा,
'एतस्मिन्नन्तरे यज्ञे वह्निकुण्डाच्छनैर्द्विजा । दिव्यरूपान्विता नारी दिव्याभरणभूषिता ॥
39
'वह्नेः शीतांशुबिम्बाभा सहसा निर्गता बहिः । एकैव तु जगद्धात्री द्वितीया नास्ति काचन ॥'
For Private and Personal Use Only
चिद्रूपोयोऽग्निस्तत्कुण्डात्प्रादुर्भूता । भूतायै इति च ॥ देवानां कार्ये भण्डासुरवधादि तदर्थमुद्यता आविर्भूता । उद्यतायै इति च ॥ ५२ ॥