________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
354
सौभाग्यभास्कर-बालातपासहितम् 'पुंरूपं वा स्मरेदेवि स्त्रीरूपं वा विचिन्तयेत् ।
अथवा निष्कलं ध्यायेत्सच्चिदानन्दलक्षणम् ॥ इति विशेष्यनिर्देशायैव व लिङ्गत्रयसाधारणस्य प्रणवस्यादौ प्रयोगः । तस्य च समस्तस्य ब्रह्मैवार्थः । 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति भगवद्वचनात् । अकारोकारमकारनादबिन्दुभिर्व्यस्तैर्ब्रह्मविष्णुरुद्रेश्वरसदाशिवानां कथनात्तत्पञ्चकरूपमिति वा । तदुक्तं बृहन्नारदीये
'अकारं ब्रह्मणो रूपमुकारं विष्णुरूपवत् । मकारं रुद्ररूपं स्यादर्धमात्रं परात्मकम् ॥ वाच्यं तत्परमं ब्रह्म वाचकः प्रणवः स्मृतः ।
वाच्यवाचकसम्बन्धस्तयोः स्यादौपचारिकः ॥ इति । रूपपदं वाच्यवाचकयोरभेदाभिप्रायेणाभिन्नपरम् । अत एव भेदघटितो वाच्यवाचकभावसम्बन्ध औपचारिक: अमुख्यः । व्यावहारिक इत्यर्थः । अनेनैवाशयेन पुष्पदन्तोप्याह- 'समस्तव्यस्तं त्वां शरणद गृणात्योमिति पद मिति । यज्ञवैभवखण्डे तु नानाविधा अर्था वर्णिता: -
'ज्ञातार्थे ज्ञातमित्येवं वक्तव्ये सति तद्विना । ओमिति प्राह लोकोऽयं तेन ज्ञातस्य वाचकः॥ अज्ञातार्थे तथाज्ञातमिति प्राप्ते तु वाचके । ओमिति प्राह लोकोऽयं तेन ज्ञातस्य वाचकः ॥ सन्दिग्धार्थं तु सन्दिग्धमिति प्राप्ते तु वाचके । ओमिति प्राह लोकोऽयं तेन सन्दिग्धवाचकः॥ आकाशादिपदार्थानां ये शब्दा वाचका भुवि । विना तानखिलान्शब्दान् लोक ओमिति भाषते ॥ अतः प्रयोगबाहुल्यात् घटकुड्यादिशब्दवत् । आकाशादिपदार्थानां वाचकः प्रणवः स्मृतः॥ सर्वावभासकत्वेन ब्रह्मणा सदृशः स्मृतः । सर्वावभासकं मन्त्रमिमं जपति यो द्विजः ॥
सर्वमन्त्रजपस्योक्तफलं स लभतेऽचिरात् ।' इति । बृहत्पाराशरस्मृतिरपि
'प्रणवो हि परं तत्त्वं त्रिवेदं त्रिगुणात्मकम् । त्रिदेवतं त्रिधामं च त्रिप्रज्ञं त्रिरवस्थितम् ॥
For Private and Personal Use Only