SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 ललितासहस्रनामस्तोत्रम् तस्य नवधा विभज्य निदेशबलादेकैकस्य चरणस्यैकैकनामात्मकत्वं ध्वन्यते । तथा च नवशब्दोदिता संख्या नामस्वेवान्वेति नाक्षरेषु । अत्र नवशब्दान्नवत्वसंख्याया इव नकारवकारोदितदशचतु:संख्ययोझडिति न प्रतीतिः । अतः प्रतीतिशैघ्यमान्थर्याभ्यां संख्यावाचकपदाक्षराणामिह सम्भूयैकार्थप्रत्यायकत्वमेव । एकत्र चरणादिशब्दसमवधानमहिम्ना संख्यावाचकशब्दानां नामधेयान्वितस्वार्थकत्वमेव नाक्षरान्वितस्वार्थकत्वमिति सिद्धे चरणादिविशेष्यसमर्पकपदाभावेऽपि नामान्वितस्वार्थकत्वं क्लुप्तं न दण्डेन पराणुद्यते । एकत्र निर्णीतः शास्त्रार्थोऽसतिबाधकेऽन्यत्रापीति न्यायात् । आदित्यः प्रायणीयः पयसिचरुरिति विधेरस्थालीवचनस्यापि चरुशब्दस्यादितिमोदनेनेति वाक्यशेषवशादोदनार्थकत्वे निर्णीते सौर्यं चरुमित्यादौ वाक्यशेषाभावेऽप्योदनार्थकत्वानपायात् । ईदृशासांकार्यसिध्यर्थमेव चाक्षरसंख्यायां वाच्यायां गुणादिशब्दान्तराणामेव प्रयोगो न पुनर्नवदशादिसंख्यापदाक्षराणामिति व्यवस्थापि सिध्यति । त्रिंशदर्धाः । समांशस्याप्यंशत्वमात्रविवक्षायामनियतलिङ्गोऽर्धशब्दः । 'अर्धं नपुंसक मिति सूत्रे कः पुनः पुलिंङ्ग इति भाष्यस्यानियतलिङ्गपरत्वेनैव कैयटेन व्याख्यानात् । वा पुंस्यर्ध इति कोशाच्च । तेन षोड़शषोडशाक्षराणि त्रिंशन्नामानीत्यर्थः । भकारस्य चतुरक्षरात्मकमेकनामेति । एकपदस्य तदुत्तरमेकनामेत्यर्थे सिद्धन्यायात् द्वादशाक्षरमिति सिध्यति । एकस्मिन्नर्धे तावत एव परिशेषात् । अर्धात्परतोऽर्धान्तरग्रहणेन तन्मध्ये नामसमाप्त्ययोगात् । 'यतिर्विच्छेद' इति पिङ्गलसूत्रेणार्धान्तेऽवसानविधानात् । अवसानस्य च पदसमाप्तिव्याप्यत्वात् । न चार्धान्यूनमेव नाम समाप्यतामिति वाच्यम् । तथात्वे एकपदवैयर्थ्यात् । रूपपदेन द्वादशसंख्याया उक्तपरिभाषानुसारेण वक्तुं शक्यत्वेऽपि यक्षरैकाक्षरे नामनी इति भ्रमो माप्रसञ्जीति तथा नोक्तम् । अत एव दशाधिका संख्या पारिभाषिकानेकाक्षरसाध्यत्वान्नेह परिभाषया निर्दिश्यत इत्यपि नियमो द्रष्टव्यः । ततोऽर्धत्रयं त्रीणि नामानि ततोष्टाभिरष्टाभिरक्षरैढे । ततश्चतुर्भि: पञ्चभिरष्टाभिभ्यिां षड्भिश्चाक्षरैः षण्नामानि । तत: सप्तभिश्चरणैः सप्त । ततस्त्रिभिः पञ्चभिट्टै नामनी इत्येवं श्लोकार्थः ॥ ९ ॥ अथ नाम्नामर्थः प्रस्तूयते । तेषु स्त्रीपुंनपुंसकलिङ्गानां नाम्नां विशेषणरूपत्वेन तेषां क्रमेण चिदात्मा ब्रह्मेत्यादीनि विशेष्यसमर्पकपदानि निर्दिष्टानि । पदानुसारीण्येव हि लिङ्गानि न तु वास्तविकं ब्रह्मण्येकमपि लिङ्गं 'न स्त्री न षण्ढो न पुमानजेतुरिति विष्णुभागवतात् । 'न त्वमम्ब पुरुषो न चाङ्गना चित्स्वरूपिणि न षण्ढतापि । नापि भर्तुरपि ते त्रिलिङ्गता त्वां विना न तदपि स्फुरेदयम् ॥ इति । कालिदासोक्तेश्च । अत एव देवताया ध्यानेप्यैच्छिक एव विकल्पः स्मर्यते । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy