SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् मुख्यशब्दजपतो मुनीश्वराः सत्यमेव परमेश्वरो भवेत् । तस्य वक्त्रकमले सदाशिवो नृत्यतिस्म परमेशया सह ॥ इत्यलं विस्तरेण ॥ ८ ॥ इदानीं छलाक्षरसूत्रोक्तरीत्यैव प्रतिनामधेयमक्षराणि संचिख्यासुः श्लेषेण गुरुं प्रणमति मन्त्राद्योजयति गुणी नवचरणस्त्रिंशदर्धाभः। एकार्धत्रयदेहो भूमदहारीतसप्तपाल्लेशः ॥९॥ मन्त्राणामाद्यो मूलकारणं श्रीगुरुसार्वभौमो जयति सर्वोत्कर्षेण वा वर्तते । 'मोक्षस्य मूलं यद् ज्ञानं तस्य मूलं महेश्वरः । तस्य पञ्चाक्षरो मन्त्री मन्त्रमूलं गुरोर्वचः ॥ इति वचनात् । तमेव विशेषणैर्विशिनष्टि । गुणी परमार्थतो निर्गुणोऽपि-'विद्यावतारसिध्यर्थं स्वीकृतानेकविग्रहः ।' नवे नित्यनूने चरणे रक्तशुक्लाख्ये यस्य सः । तदुक्तम् 'वन्दे गुरुपदद्वन्द्वमवाङ्मनसगोचरम् । रक्तशुक्लप्रभामिश्रमतयं त्रैपुरं महः ॥" इति । अथवा 'पवित्रं चरणं चक्रं लोकद्वारं सुदर्शनमिति कोशान्नवचक्रात्मकः । त्रैलोक्यमोहनादिसर्वानन्दमयान्तचक्रराजाभिन्न इति यावत् । त्रिंशतामधू पञ्चदशाक्षराणि श्रीविद्यान्तर्गतानि तदाभस्तत्तुल्यस्तद्रूप इत्यर्थः । 'निरञ्जनः परमसाम्यमुपैतीति श्रुतावभेदेऽपि तुल्यतोक्तिदर्शनात् । एको मुख्यश्चासावर्धत्रयदेहश्च अर्धं च त्रयं च । अध्युष्टमिति यावत् । तादृशी सार्धत्रिवलयाकारा कुण्डलिन्येव सर्वदेवतारूपा देह आत्मा यस्य सः । भूतुल्यो मदो महामद इत्यर्थस्तं हरति । यद्वा भूमा ब्रह्मानन्दस्तं दत्तेऽतएव हारी मनोहरः । यो वै भूमा तत्सुखमिति श्रुतेः । प्ता: जटा: ताभिः सहित: सप्तः, परमशिवस्तत्पादौ लाति आदत्ते विषयीकरोतीति सप्तपाल्ला शिवपदभक्ति: इता प्राप्ता सप्तपाल्ला येन सः अतएवेश: परमशिवः शिवभक्तिबललभ्यतदभेद इति समुदितार्थः । प्ता इत्येकाक्षरस्य जटावाचकत्वं 'स प्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्रित्वनेत्रः' इतिप्रयोगे प्रसिद्धम् । आदित्यपुराणप्रसिद्धपश्चिमोदधितीरस्थसप्तकोटीश्वरनामनिर्वचनश्लोकेऽपि "अद्याप्यस्ति विपश्चितामपि महत्सन्देहकोटिद्वयं यः श्रुत्या जगदीश्वरो निगदितः सप्तः किमप्तोऽथ सः । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy