SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् तस्तु 'सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति वाक्यस्य दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यनेन फलांशेनोपसंहारः । न हिंस्यात्सर्वाभूतानी' तिनिषेधस्य 'न ब्राह्मणं हन्या दित्यनेनापि नोपसंहार इति सिद्धान्तः । विशेषकाकाङ्क्षायां सत्यामेवोपसंहारावतारात् । अनयोर्विधिनिषेधयोः सर्वपदघटितत्वेन विशिष्यविशिष्यैव सर्वेषां फलानां प्राणिनां चोपस्थित्या भावनान्वये कीदृशं फलं किंजातीयः प्राणत विशेषाकाङ्क्षाया अनुदयात् । तदुक्तं तन्त्रवार्तिके इति । कालिकापुराणेऽपि - 'सामान्यविधिरस्पष्टः संहियेत विशेषतः । स्पष्टस्य तु विधेर्नान्यैरुपसंहारसम्भवः ॥' इति । तता च प्रकृतेऽपि सर्वेभ्य कामेभ्य एकैकं नामेति विधिपर्यवसानस्यावश्यकत्वाद् 'यच्छक्तिमन्नाम यस्येति विष्णुधर्मोत्तरवचनस्य पाद्यवायवीयदेवीनामसामान्याश्रितविध्युपसंहारकताया नामांशे स्वीकारेऽपि फलांशे तदस्वीकारः । सर्वपदघटितस्यैव विधिपर्यवसानस्य बहुभिर्वचनैः सिद्धत्वात् । तथा च देवीवचनम् 'कीर्तयेनामसाहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या सकलान्कामाँल्लभते नात्र संशयः ॥ 'ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च । जगन्मयीति मायेति सर्वं तेषां प्रसिध्यति ॥' इति । विष्णुपुराणे देवींप्रति विष्णुवचनम् Acharya Shri Kailassagarsuri Gyanmandir इति । याज्ञवल्क्यस्मृतौ 'ये त्वां मायेति दुर्गेति वेदगर्भाम्बिकेति च । भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च ॥ प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः । तेषां हि प्रार्थितं सर्व मत्प्रसादाद्भविष्यति ॥' 'विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् । दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं विनिवेदयेत् ॥' इति । विधायोपस्थानमन्त्रं लिङ्गं च समर्यते 'रूपं देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥' For Private and Personal Use Only 29
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy