SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 ललितासहस्रनामस्तोत्रम् इति । कालिकापुराणे मायैका भिन्नरूपेण कमलाख्या सरस्वती । सावित्री सा च सन्ध्या च भूता कार्यस्य भेदतः ॥" इति । बृहन्नारदीयेऽपि जगत्की शक्ति प्रकृत्य, 'उमेति केचिदाहुस्तां शक्तिं लक्ष्मी तथा परे । भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च ॥ दुर्गेति भद्रकालीति चण्डी माहेश्वरीति च । कौमारी वैष्णवी चेति वाराही च तथा परे ॥ ब्राह्मीति विद्याविद्येति मायेति च तथा परे। प्रकृतिश्च परा चेति वदन्ति परमर्षयः ॥" इति । श्रुतिश्च एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति । देवीपुराणे देव्या वा एष सिद्धान्तः परमार्थो महामते । एषा वेदाश्च यज्ञाश्च स्वर्गश्च सकलं जगत् ॥ देव्या व्याप्तमिदं विश्वं जगत्स्थावरजङ्गमम् । इज्यते पूज्यते देवैरनपानात्मिका च सा॥ सर्वत्र शाङ्करी देवी तनुभिर्नामभिश्च सा। वृक्षेपूर्ध्या तथा वायौ त्यौम्न्यप्वग्नौ च सर्वशः ॥" इति । निष्कलं त्वेकविधमेव । तदेतत्सर्वं कूर्मपुराणे हिमवन्तं पति देवीवाक्येन स्पष्टीकृतम् अशक्तो यदि मां ध्यातुमैश्वरं रूपमव्ययम् । तदा मे सकले रूपे कालाद्येऽनन्तभेदिनि ॥ यदेव रूपं मे तात मनसो गोचरस्तव । तनिष्ठस्तत्परो भूत्वा तदर्चनपरो भव ॥ यत्तु मे निष्कलं रूपं चिन्मानं केवलं शिवम् । सर्वोपाधिविनिर्मुक्तमेकमेवामृतं परम् । ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पदम् ॥ इति । एवंस्थिते सगुणे ब्रह्मणि शक्त्या शब्दानां प्रवृत्तिर्निराबाधैव । प्रवृत्तिनिमित्तभूतानां धर्माणां सत्त्वात् । निर्धर्मक तु शब्दा लक्षणया प्रवर्तन्ते । विशिष्टकेवलयोस्तादात्म्यरूपस्य शक्यसम्बन्धस्य सम्भवात् । निर्गुणे मिथ्यारूपस्य सम्बन्धस्य स्वीकारेऽपि स्वसमानसत्ताकधर्मशून्यत्वरूपनिर्धर्मकताया ब्रह्मणोऽनपायात् । अतीतानागतघटादिविषयकज्ञानीयविषयतासम्बन्धस्येवान्यतरस्मिन्संसृष्ट For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy