________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम् सप्तत्रिंशत् (३७)। भय। धकारादीनि चतुर्दश (१४)। मांसे। नकारादीनि पञ्चसप्तति: (७५)। पदे। पकारादीन्येकाशीतिः (८१)। वरः। बकारादीनि चतुर्विशतिः (२४)। सङ्गः। भकारादीनि सप्तत्रिंशत् (३७)। प्रकट। मकारादीनि द्वादशोत्तरशतम् (११२)। गय। यकारादीनि त्रयोदश (१३)। जल। रेफादीनि नामान्यष्टत्रिंशत् (३८)। वाटी। लकारादीनि चतुर्दश (१४)। धुसि । वकारादीन्येकोनाशीतिः (७९)। धर्मे। शकारादीन्येकोनषष्टिः (५९)। मा। षकारादीनि पञ्च (५)। खखोल्क । सकारादीनि द्वाविंशत्युत्तरशतम् (१२२) | टीका। हकारादीन्येकादश (११)। धीः । क्षकारादीनि नव (९) । नामानीत्यर्थः ॥ ७ ॥
इत्थं नामसाहस्रं साधकलोकोपकारकं विहितम् ।
गुणगणसदसद्भावावाश्रित्य ब्रह्मणोऽम्बायाः ॥ ८॥ इत्थं पूर्वोक्तप्रकारेण । साधकानां तत्तन्मातृकाभिमान्यमृताकर्षिणीन्द्राण्यादिक्षमावत्यन्तदेवता: सिसाधयिषूणां लोकानामुपकारकमस्माभिर्विहितमुक्तमित्यर्थः । तत्तदक्षरारब्धनामसंख्याज्ञानेन सद्यः पापाद्विमुच्यत इति । अत्र श्रीमातृशब्देन ललिताम्बाया इव मातृकासरस्वत्यास्तदभिन्नानाममृतादीनामपि संग्रह इति सुवचनम् । अथवा देव्या अनन्तेषु नामसु शीघ्रं साधकोपकारकत्वेन क्लृप्तान्येव नामानि वाग्देवताभिरिह संगृहीतानीत्यर्थः । ननु निर्गुणे ब्रह्मणि धर्मलेशराहित्याद्गुणक्रियाजातिरूढीनां शब्दप्रवृत्तिनिमित्तानामसम्भवाच्चतुष्टय्यपि शब्दानां प्रवृत्तिर्न तत्र युज्यत इत्यत आह । गुणगणेति । ब्रह्मणोऽम्बाया इति समानाधिकरणे षष्ठ्यौ ॥ ८ ॥
अयं भावः । ब्रह्म द्विविधं सकलं निष्कलं चेति । द्वे ब्रह्मणी वेदितव्ये परं चापरं चेति श्रुतेः स्मृतेश्च । तत्र सकलमपरम् । तद्विविधं जगन्नियामकं जगदात्मकं चेति । तदुक्तम्- 'जगन्नियन्ता जगदात्मकश्चेति । अन्यत्रापि-'शिवः कर्ता शिवो भोक्ता शिवः सर्वमिदं जगत्' इति । देवी दात्री च भोक्त्री च देवी सर्वमिदं जगदिति च । 'स्थितिसंयमकर्ता च जगतोऽस्य जगच्च स' इति च । 'सोऽकामयत बहु स्यां प्रजायेयेति श्रुतिश्च । अकामयतेति निमित्तताया बहु स्यामिति परिणाम्युपादानतायाश्च प्रतीतेः । 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधा'दित्यधिकरणे 'आत्मकृते परिणामादिति ब्रह्मसूत्रं च । तत्र जगदात्मकं ब्रह्म चराचरभेदाद् द्विविधम् । द्विविधमपि हिरण्यगर्भादिभेदाद्वियदादिभेदाच्चानेकविधम्। जगन्नियन्त्रपि नियमनस्य सृष्टिस्थितिलयतिरोधानानुग्रहभेदेनानेकविधत्वाद्ब्रह्मविष्णुरुद्रादिभेदेनानेकविधमेव । तेष्वप्येकैकस्य भक्तानुजिघृक्षया तत्तद्वासनानुसारेण कार्यभेदेन च गृहीतानां रूपाणामनन्तत्वात्तत्तद्विशिष्टवेषेणानन्त्यमेव । तदुक्तं सुप्रभेदे
यतीनां मन्त्रिणां चैव ज्ञानिनां योगिनां तथा । ध्यानपूजानिमित्तं हि तनूहणाति मायया.
For Private and Personal Use Only