________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
24
अथ प्रथमशतकं नाम द्वितीया तापिनीकला अथ परिभाषामण्डले नामारम्भकवर्णानेव विभाजकोपाधीकृत्य द्वात्रिंशद्विधानि वक्ष्यमाणानि नामानि विवेचयितुमेकपञ्चाशन्मातृकासु ग्राह्यवर्णान्विचिनोति
अक्षु शराच्छरवर्णास्ततः समानन्त्यमौ कचयोः ।
अथ मध्यान्यांस्तपयोर्द्वितीयमन्त्ये त्यजेन्नवमम् ॥ ५ ॥ अक्षु षोडशस्वराणां मध्ये शरात् प्राथमिकपञ्चाक्षराणि गृहीत्वा । ल्यब्लोपे पञ्चमी । शरवर्णान् षष्ठादिदशमान्तान् पञ्चवर्णांस्त्यजेत् । ततः अवशिष्टानामेकादशादिषोडशान्तानां मध्ये समान्द्वादशचतुर्दशषोडशान् । कचयोः कवर्ग-चवर्गयोः अन्तिमौ घकार-डकारौ झकार-अकारौ च । अथानन्तरे टवर्गे मध्यान्यान् डकारभिन्नांश्चतुरो वर्णान् । तपयोः तवर्ग-पवर्गयोः द्वितीयं थंकारं फकारं च । अन्त्ये यवर्गीयदशाक्षरेषु नवमं लकारं त्यजेत् । तत्तदक्षरादिनामधेयानामभावादिति भावः ॥ ५ ॥
अतएव 'द्वात्रिंशद्वेदभिन्ना या तां वन्देऽहं परात्परामिति सूतसंहितोक्तिरेतत्परेत्याशयेनाह
इत्थं शिष्टानुष्टुब्वारब्धेषु नामसु तु संख्याः।
अर्वनटत्रिद्वीष्वेकद्विचतुःकंजपानवरधीराः ॥ ६ ॥ इत्थमेकोनविंशतिवर्णानां त्यागेनावशिष्टा अनुष्टुब्वर्णाः द्वात्रिंशत्संख्यान्यक्षराणि तैरारब्धेषु नामसु संख्यां वच्म इत्यर्थः । तदेवाह सार्धेन । अत्रैकैकं पदमेकैकाक्षरादिनाम्नां संख्येति क्रमः । तथाहि । अर्व। अकारादीनि नामानि चत्वारिंशत् (४०)। नट | आकारादीनि दश (१०)। इकारादीनि त्रीणि (३) । ईकारादीनि द्वे (२) । उकारादीनि पञ्च (५) । इषुशब्दस्य बाणपरत्वेन तदर्थकत्वात् । एकारादि नामेकं (१)। ओकारादीनि द्वे (२)। अंकारादीनि चत्वारि (४) । कंज | ककारादीन्येकाशीतिः (८१) । पान । खकाराद्येकम् (१) । पकारात्पूर्वं नकारीयबिन्दुलेखस्तु छन्दोनुसारादनिष्टाभावाच्चोक्तः । वर । गकारादीनि चतुर्विशतिः (२४) । धीरः । चकारादीन्येकोनत्रिंशत् (२९) ॥ ६ ॥
किंधूपद्विस्तम्भछलभयमांसे पदे वरः सङ्ग।
प्रकटगयाजलवाटीधुसिधर्मे माखखोल्कटीकाधीः ॥ ७ ॥ किं। छकाराद्यमेकं नाम (१)। धूप। जकारादीन्येकोनविंशतिः (१९)। डकारादीनि द्वे (२)। स्तम्भ । तकारादीनि षट्चत्वारिंशत् (४६)। छल । दकारादीनि
For Private and Personal Use Only