________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम् मौलिशब्दः । माणिक्यश्रेष्ठवत्स्फुरन्नित्यादिपूर्ववत् । आसमन्तात्पीनौ पुष्टौ वा 'ऊधस्तु क्लीबमापीनमिति कोशादूधोवद्वा वक्षोरुहौ यस्यास्ताम् । अलिभिः भ्रमरैः पूर्णरत्नमयं चषकं वाटीम् ।
__ 'चषकं च कटोरी च वाटिका खारिका तथा ।
कचोली गाथिका चेति नामान्येकार्थकानि वै ॥ इति रत्नसमुच्चयेऽभिधानात् तदन्तर्गतस्य मधुनः सुगन्धित्वान्मधुपपूर्णता । यद्वा 'अलिः सुरापुष्पलिहोरिति हैमकोशान्मद्यमलिपदवाच्यम् । रत्नं घटे तिष्ठति एतादृशो रक्तचरणः पञ्चमो द्रवो यस्यास्तामिति । एवं परिभाषायां चतुर्भिः श्लोकैः सहस्रनाम्नः प्रथमो भागो विवृत इति शिवम् ॥ ५१ ॥ ॥ इति श्रीभासुरान्दकृते सौभाग्यभास्करे । उपोद्घातपरैः श्लोकैः
प्रथमा तपिनीकला ॥१॥ ॥इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणसर्वतन्त्रस्वतन्त्रश्रीमन्नृसिंहयज्वचरणाराधकेन भारत्युपनामकश्रीमद्गम्भीररायदीक्षितसूरिसूनुना भास्कररायेण भासुरानन्दनाथेतिदीक्षानामशालिना प्रणीते सौभाग्यभास्करे ललितानामपरिभाषामण्डलभाष्ये
उपोद्घातप्रकरणं नाम प्रथमा कला ॥
For Private and Personal Use Only