SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् अयं प्राथमिको विधिः । पूर्वोक्तस्त्वेतदनुवादरूपोऽपि वक्तृश्रोतृभेदाद्विधिरेव । अतएव पुनःश्रवणस्यानन्यपरत्वाभावेन शाखाभेदेन पुनः श्रुताग्निहोत्रविधीनामिव न कर्मभेदकत्वम् ॥ ४२ ॥ प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् । इदं नामसहस्रं मे यो भक्तः पठतेऽसकृत् ॥ ४३ ॥ सम्प्रदायः प्रवर्तनीय इति विधत्ते । भक्तेषु श्रीविद्यादीक्षितेषु वक्ष्यमाणेषु काम्यप्रयोगेषु सति सम्भवे स्तोत्रावृत्तिः कर्तव्येति विधत्ते - इदमिति । यः सकृदेकवारमपि पठति ॥ ४३ ॥ मम प्रियतमो ज्ञेयस्तस्मै कामान्ददाम्यहम् । श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ ४४ ॥ तस्मै कामान्ददामीति । किमुत बहुवारमित्यनया भङ्गया काम्यप्रयोगेष्वावृत्तिविधानाभावेऽप्यस्यैवावृत्तिविधाने तात्पर्यं दाक्षायणयज्ञविधिवत् । अन्यथा होमविधेरग्रबिन्दुनिपातमात्रेण शास्त्रार्थसिद्धिवत्सकृत्पाठेनैव तत्सिद्धिरावृत्तौ मानाभावात्परिसंख्याद्यर्थं सकृत्त्वविधानस्य वैयर्थ्यापातात् । प्रथमविधावुक्तस्य सदातनत्वस्योपसंहारार्थमाह-श्रीचक्र इति । उपलक्षणापायेऽप्युपलक्ष्यानपाय इति न्यायबल - लभ्यमर्थमाह || ४४ ॥ पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये । मामर्चयतु वा मा वा विद्यां जपतु वा न वा ॥ ४५ ॥ अशक्तस्य जपार्चनादेः फलमितएव लभ्यमित्याह ॥ ४५ ॥ कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या सकलान्कामाँल्लभते नात्र संशयः ॥ ४६ ॥ स्पष्टम् ॥ ४६ ॥ 21 तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् । हयग्रीव उवाच इति श्रीललितेशानी शास्ति देवान्सहानुगान् । आज्ञापयामास तदा लोकानुग्रहहेतवे ॥ ४७ ॥ For Private and Personal Use Only अथ अध्युष्टश्लोकैर्हयग्रीववाक्यम् । यद्यप्युपान्त्यश्लोकान्तमेतद्वाक्यमेव । तथापि मध्ये ध्यानश्लोकः प्रक्षिप्त इति वदन्तीत्येवमुक्तम् । अम्बाया वचनमुपसंहरति ।
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy