________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20
ललितासहस्रनामस्तोत्रम् सर्वपदस्य संज्ञारूपत्वेन सर्वनामतानापत्तिः । सर्वनामपदस्यान्वर्थकतया चरमसंख्यावाचकस्यापि सर्वपदस्य समस्तवाचकतया तदुपपत्ते: । अतएव श्रुतावपि स्मायादेशश्चतुर्था उपपद्यते । तस्य छान्दसत्वे तु प्रकृते सुडागमोऽपि तथैवेति ज्ञेयम् ॥ ३७ ॥
तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् । तत्र श्रीललितादेवीकटाक्षाक्षेपनोदिताः ॥ ३८॥ उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहौः स्वकृतैर्ललिताम्बिकाम् ॥ ३९ ॥ विश्वकर्मशास्त्रे नृपस्य दक्षतः पुत्रस्य वामभागेऽष्टमन्त्रिण इत्यादिरीत्योक्तम् । क्रममनतिक्रम्य यथाक्रमम् । अत्र स्वशब्द आत्मनि वाच्ये पुंलिङ्ग एवेति प्रकृते वाग्देवतात्मपरोपि स्वकृतैरित्यत्र पुंलिङ्ग एव भवति सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वा ॥ ३८-३९ ॥
श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी।
सर्वे ते विस्मयं जग्मुर्ये तत्र सदसि स्थिताः ॥ ४० ॥ ते सर्वे ब्रह्माणीप्रभृतयोऽपि । प्रसादविस्मययोर्मूलं तु शब्दार्थयोरलङ्कारादिपुष्टिरदोषता | यथा विष्णुसहस्रनामादिषु 'क्षेत्रज्ञोऽक्षर एव चेत्यादौ निरर्थकाव्ययप्रयोगः शतावधिनाम्नां द्विरुक्तिः केषांचित्रिरुक्तिश्चतुरुक्तिश्च न तथेह स्तोभप्रयोगः पुनरुक्तिर्वा । यद्यपि भगवत्पादेर्भाष्ये तत्रार्थभेदो वर्णितस्तथाप्यर्थभेदेन नाम्नां भेदाङ्गीकारो नानार्थोच्छेदाद्यापत्त्या नान्यगतिकः। अर्थाभेदेऽप्यूच्चारणभेदादपि भेदापत्तिश्च । तथा चक्ररहस्यमन्त्रोद्धारादिरूपरहस्यार्थान्तराणामपि चमत्कृतानीति । तानि च गुरुमुखादेव यद्यपि वेद्यानि तथापि विद्वच्चित्तचमत्कारार्थं क्वचित्क्वचिदर्थान्तराणि तत्र तत्र दिङ्मात्रेण प्रदर्शयिष्यामः ॥ ४० ॥
ततः प्रोवाच ललिता सदस्यान्देवतागणान् ।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥ ४१ ॥ सदसि स्थितान्सदस्यान्प्रति प्रोवाच विस्मयनिरासार्थमिति शेषः । अथ षड्भिश्लोकैरम्बावाक्यम् । ममाज्ञयैव न तु स्वप्रतिभामात्रेण । अतो नात्र विस्मयः कर्तव्य इति भावः ॥ ४१ ॥
अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः। तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ॥ ४२ ।
For Private and Personal Use Only