________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम् इति । तेनौघा इति बहुवचनमनेककोटिपरम् । यद्यप्योघो नाम संख्याविशेषो न ज्योतिःशास्त्रे प्रदृश्यते । यदुक्तम्
'एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमब्जे खर्व निखर्वमहापद्मशङ्कवस्तस्मात् ॥
जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः। इति । नापि वायुपुराणे । तत्र हि 'शृणु संख्यां परार्धस्य परस्याप्यपरस्य च' इत्यादि 'कोटिकोटिसहस्राणि परार्धमिति कीर्त्यते' इत्यन्तं यथापूर्वमुक्त्वोक्तम्
'परार्धद्विगुणं चापि परमाहुर्मनीषिणः । शतमाहुः परिदृढं सहस्रपरिपनकम् । ततोऽयुतं च नियुतं प्रयुतं चार्बुदं ततः॥ न्यर्बुदं खर्बुदं खर्व निखर्व शङ्कपद्मको । समुद्रं मध्यमं चैव परार्धमपरं ततः॥ एवमष्टादशैतानि स्थानानि गणनाविधौ । ।
शतानीति विजानीयान्युद्दिष्टानि मनीषिभिः ॥ इति । तथापि रामायणे युद्धकाण्डे 'शतं शतसहस्राणां कोटिमाहुर्विपश्चितः' इत्यारभ्य 'शतं समुद्रसाहस्रमहौघ इति विश्रुतमित्यन्ते शङ्कु-महाशङ्कु-वृन्द-महावृन्द-पद्म-महापद्मखर्व-महाखर्व-समुद्र-महौघाख्या उत्तरोत्तरं लक्षलक्षगुणिता दशसंख्या उक्तास्तत्र 'नामैकदेशे नामग्रहण मितिन्यायेनौघपदमात्रं प्रयुक्तम् । अथवा परप्रकाशानन्दनाथाद्याः सप्त परमगुरवो गगनानन्दनाथाद्या अष्टौ परापरगुरवो भोगानन्दनाथाद्याश्चत्वारोऽपरगुरव इत्योघत्रयं दिव्यादिपदवाच्यम् । इदञ्च कामराजसन्तानाभिप्रायेणोक्तम् । लोपामुद्रासन्तानभेदेन विद्याभेदेन च मित्रेशानन्दनाथादीनि बहून्योधत्रयाणि ज्ञानार्णवादिषु द्रष्टव्यानि । दिव्यादिगुरुक्रमस्तु गुरूपदेशादवगन्तव्यः । तत्र सर्वेषामिति संख्याविशेषो महौघपर्यायः । बहुवचनमप्यनन्तानन्तपरम् । यजुर्वेदसंख्याप्रायपाठे परार्धायस्वाहेत्यस्योत्तरमुषसेस्वाहेत्यारभ्य सर्वस्मै स्वाहेत्यन्ता अष्टौमन्त्राः श्रूयन्ते । तत्रत्याश्चोषा आदयः शब्दाः संख्याः प्रायपाठाल्लक्षलक्षगुणोतरसंख्यावाचका वक्तव्याः । तदयं संग्रहः ।
'उषोव्युष्टितथोदेष्यन्नुद्यन्नुदित एव च। स्वर्गोलोकश्च सर्वश्चेत्येवनाम्नायते श्रुतौ।
एताः परार्धात्परतः संख्या लक्षगुणोत्तरा: इति । एवं सति रामायणैकवाक्यतापि लभ्यते । रामायणीयमहाशङ्को ज्योति:शास्त्रीयपरार्धपर्यायत्वात् । सति सम्भवे स्मृतेर्मूलान्तरगवेषणाया अयोगात् । न चैवं
For Private and Personal Use Only