SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 ललितासहस्रनामस्तोत्रम् पूर्वाभ्यां शक्तिभ्यां सह संख्यायां वैषम्यं च । यदि पुनर्बहुकोटिसंख्याकरुद्रसमुदायस्यैव विशेष्यत्वाभिप्रायेण गौरीकोटिसमेतत्वरूपं विशेषणं नत्वेकैकरुद्रस्य विशेष्यत्वाभिप्रायेणेति पर्यालोच्यते तदा यथाश्रुतमेव साधु । सर्वाणि बहुवचनानि पुनरनन्तसंख्यापराणि ब्रह्माण्डानामानन्त्यं प्रति ब्रह्माण्डसृष्ट्यधिकारिषु त्रयस्यावश्यकत्वेन तेषामानन्त्ये विवादाभावात् । तेषां युगपदाह्वानं तु सर्वब्रह्माण्डेष्वस्य प्रसिद्धिसम्पादनायेत्याकूतम् ॥ ३५ ॥ मन्त्रिणीदण्डिनीमुख्याः सेवार्थं याः समागताः। शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥ ३६ ॥ विविधाकारा इति । 'परा शक्तिश्चादिशक्तिरिच्छाज्ञानक्रिया बला। बालान्नपूर्णा बगला तारा वाग्वादिनी परा॥ गायत्री चैव सावित्री सिद्धलक्ष्मीः स्वयंवरा । नकुली तुरगारूढा कुरुकुल्ला च रेणुका ॥ संपत्करी च साम्राज्यलक्ष्मीः पद्मावती शिवा । दुर्गा भद्राकृतिः काली कालरात्रिः सुभद्रिका ॥ छिन्नमस्ता भद्रकाली कालकण्ठी सरस्वती ।' इत्याद्या रुद्रयामलादौ प्रसिद्धाः । यद्यपि पूर्वत्रापि कोटय इति बहुवचनेनासंख्यातत्वमेवोक्तं तथापीह तत्तत्समानसंख्याका: प्रत्येकं बालादयः सजातीया एव । परस्परविजातीया अप्यनन्ता इत्याशयेन तासां नाम्नां विशिष्य निर्देष्टुमशक्यत्वात्संख्या न विद्यत इत्युक्तम । अथवाऽसंख्या असंख्यनामधेयमित्यर्थः । न विद्यते न शक्यते वक्तुमिति शेषः । सम्यक् ख्यातीति संख्या नामनिर्देष्टेत्यर्थो वा ॥ ३६ ॥ दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः। तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ ३७॥ दिवि भवा दिव्या दिक्पालाद्या देवाः । मानवाः पुण्याः ब्रह्मर्षयो विश्वामित्राद्याः । सिद्धाः सनकनारदाद्या योगिनः । तेषामोघाः संख्याविशेषः । तथा च रुद्रयामले 'अनेककोटिदिक्पालैश्चन्द्रार्कवसुकोटिभिः । सनकाद्यैश्च योगीन्द्रैः सप्तर्षीणां च कोटिभिः॥ नारदादिमहौघानां कोटिभिः परिदारिताम् ।' For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy