SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 सौभाग्यभास्कर-बालातपासहितम् सत्त्वात् । अतः सहस्रनामसमाप्तिश्लोके फलश्रुतिचरमश्लोके च ललिताम्बिकेति नाम्न उल्लेखः ॥ ३१ ॥ हयग्रीव उवाच इत्याज्ञप्ता वचोदेव्यः श्रीदेव्या ललिताम्बया। रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ॥ ३२॥ अथ सार्धनवभिः श्लोकः पुनरपि हयग्रीववाक्यम् । अत्र पूर्वश्लोकार्धेन पौनरुक्त्याभावादेवमुक्तम् । रहस्यैश्चक्रराजस्य मन्त्रोद्धाररहस्याभ्यां सहितैः । मत्वर्थीयोऽच्प्रत्ययः ॥ ३२ ॥ रहस्यनामसाहस्रमिति तद्विश्रुतं परम् । ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ ३३ ॥ ___ स्तोत्रनाम्नोऽन्वर्थकताप्रदर्शनाय तन्निर्वक्ति-रहस्यनामसाहसमिति । तद्विश्रुतं परं इतिपदस्य वारद्वयमन्वयः । रहस्यगर्भितत्वाद्धेतोः रहस्यनामसहसमिति परं अतिशयेन विश्रुतं प्रसिद्धमित्यर्थः । सिंहासने अवस्थानं सर्वेषां दर्शनार्थम् ॥ ३३ ॥ स्वसेवावसरं प्रादात्सर्वेषां कुम्भसम्भव । सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः॥३४॥ सेवावसर: सेवार्थमवकाशः । ब्रह्माणीति नायं ब्रह्मशब्दान्डीप् 'इन्द्रवरुणेत्यादिसूत्रे ब्रह्मशब्दपाठाभावेनानुगमायोगात् । अपितु ब्रह्म वेदानणति शब्दायते व्याहरतीति यावत् । स ब्रह्माणश्चतुर्भिर्वदनैश्चतुर्वेदवक्ता ब्रह्मेत्यर्थः । तस्य स्त्रीत्यर्थे पुंयोगलक्षणो डीष् । तथा च स्वच्छन्दशास्त्रयोगः(श्लोक:)- 'ब्रह्माणीत्यपर शक्ति ब्रह्मणोत्सङ्गगामिनीति । ब्रह्माणमानयति जीवयतीति वा ब्रह्माणी । अतो न 'पुमांस्त्रिये'त्येकशेषप्रसक्तिः । अथवा ब्रह्माणीशब्दो भारतीकोटिपरः । तत्समेता ब्रह्मकोटय इति शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी समास: । बहुवचनं कोटिसंख्यापरम् । तेन प्रकृतिप्रत्ययाभ्यां मिलित्वा कोटिगुणिता कोटिरिति सिध्यति । जलधिसंख्याका ब्रह्माण्यस्तावन्त एव ब्रह्माणश्चेत्यर्थः । अतएव रुद्रयामले सर्वमङ्गलाध्यानप्रकरणे-'आवृतां ब्रह्मसहितब्रह्माणीकोटिकोटिभि रित्यादि स्मर्यते ॥ ३४॥ लक्ष्मीनारायणानां च कोटयः समुपागताः। गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ ३५ ॥ लक्ष्मीकोटिसमेता नारायणकोटीनां कोटय इत्यर्थः । रुद्राणामित्यपि रुद्रकोटीनामित्यर्थकम् । यथाश्रुते तावदेकैकस्य रुद्रस्य कोटिकोटिगौरीसमेतत्वावगतिः स्यात् For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy