________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16
ललितासहस्रनामस्तोत्रम् विनियुज्यन्तामत आह-मद्भक्तानामिति । नकुलीवागीश्वर्यादयस्तु ललिताभक्तैः सह विवदमानानां परेषां वाचस्तम्भनादिषु विनियुक्ताः । ततश्च सहस्रनामस्तोत्रस्यापि वाग्विभूतिरूपत्वेन तस्य ललिताम्बाभक्तेभ्य एव दित्सितत्वेन नकुल्यादेस्तत्करणे विनियोजने वशिन्याद्यधिकारभङ्गापत्तिरिति ध्वन्यम् ॥ २९ ॥
मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥ ३० ॥ ननु वशिन्यादिभिरपि स्तोत्राणि कृतानि सन्त्येव किमनेन नूतनेनेत्यत आह-मच्चक्रस्य रहस्यज्ञा इति । चक्रस्य बिन्द्वादिभूपुरान्तस्य रहस्यं वासनामयं शरीरं जानन्तीति तथा । अथवा । अस्ति विमर्शरूपा स्वसंविद्विषयान्तरानवभासिनी । तस्या झटित्युच्चलनाकारप्रतिभोन्मज्जनात्मकोऽन्तःपरिस्पन्दः पूर्णाहंभावनामकस्तुर्यावस्थानामकश्च । तस्य च शक्तयोऽनन्तविधास्तासां समूहश्चक्रं तस्यानुसन्धानं गुरुमुखैकलभ्यं रहस्यं तस्मिन् सति स्वभिन्नस्य सर्वस्यापि स्वस्मिन्नेवोपसंहारो भवति । तथा च शिवसूत्रम्-'शक्तिचक्रानुसन्धाने विश्वसंहारः' इति । 'गुरुरूपाय' इति च । तदिदं जानन्तीति तथा । ततश्चेतरेषु स्तोत्रेषु चक्ररहस्यं न प्रकाशितमस्ति । चिकारयिषिते तु तदपि प्रकाश्यमस्तीति व्यङ्ग्यम् । ननु अरुणोपनिषद्गुह्योपनिषत्रिपुरोपनिषदादिषु चक्ररहस्यमपि प्रकाशितमेवास्तीति किमनेनेत्यत आह-मम नामपरायणा इति । नामशब्दो देवतावाचकप्रातिपदिकपरो मन्त्रपरश्च सौन्दर्यलहयम्-ि 'शिवः शक्तिः कामः' इति मन्त्रोद्धारश्लोके मन्त्राक्षराण्युधृत्यान्ते 'भजन्ते वर्णास्ते तव जननि नामावयवताम् इति प्रयोगात् द्विविधयोः शब्दयोरेकशेषः । तेन नामोपदेशापदेशेन चक्ररहस्यकथनं मन्त्राणामुद्धारश्चोपनिषत्सु न लभ्यते । तादृशापूर्वस्तोत्रकरणे तु भवतीनामेव नामज्ञत्वादधिकार इति व्यज्यते । तस्मादुक्तहेतुपञ्चकात् वो युष्मानेवाहमाज्ञापयामि नान्या इति योजना ॥ ३० ॥
कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ ३१ ॥ आज्ञप्तव्यार्थमेवाह-कुरुध्वमिति । नामसहस्रकैरितीत्थंभूतलक्षणे तृतीया । सहस्रनामोपलक्षितं मम स्तोत्रं कुरुध्वमित्यन्वयः । स्तोत्रं विशिनष्टि-ममाङ्कितमिति । मम नाम्रा चिह्नितमित्यर्थः । अङ्कनं नाम चरमश्लोके नामप्रक्षेपः । यथा कामदेवाङ्के राघवपाण्डवीय काव्यलक्ष्म्य) किरातार्जुनीये च । प्रकृते च यद्यप्यम्बाया अनन्तानि नामानि तथापि ललितेत्यसाधारणं नाम । गुणिरुद्रेश्वरादिपत्नीष्वपि भवान्यादिनामप्रयोगेण तेषां साधारण्यात् । त्रिपुरसुन्दरीति नाम्नोऽपि तन्त्रान्तरे प्रतिपत्तिथिनित्यायाः
For Private and Personal Use Only