SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 316 www.kobatirth.org ललितासहस्रनामस्तोत्रम् सदा पूर्वः सर्वं तदिदमनुगृह्णाति च शिवस्तवाज्ञामालम्ब्य क्षणचलितयोर्भूलतिकयोः ॥' इति । श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ २३३ ॥ श्रीचक्रराजं बिन्दुत्रिकोणादिरूपं निलयो वासस्थानं यस्याः । तदुक्तम्- 'श्रीचक्रं शिवयोर्वपु'रिति । शरीरे यथा जीवस्यावस्थानं तथा श्रीचक्रे शिवयोरिति तदर्थः । त्रिपुरस्य परशिवस्य सुन्दरी भार्या । श्रीमती च सा त्रिपुरसुन्दरी चेति तथा । अत्र त्रीणि पुराणि ब्रह्मविष्णुशिवशरीराणि यस्मिन्स: त्रिपुरः परशिवः तदुक्तं कालिकापुराणे Acharya Shri Kailassagarsuri Gyanmandir 'प्रधानेच्छावशाच्छम्भोः शरीरमभवत्त्रिधा । तत्रोर्ध्वभागः सञ्जातः पञ्चवक्त्रश्चतुर्भुजः ॥ पद्यकेसरगौराङ्गः कायो ब्राह्मो महेश्वरे । तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भुजः ॥ शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः । अभवत्तदधोभागे पञ्चवक्त्रचतुर्भुजः ॥ स्फाटिकाभ्रमयः शुक्लः स कायश्चान्द्रशेखरः । एवं त्रिभिः पुरैर्योगात्त्रिपुरः परमः शिवः ॥ इति ॥ २३३ ॥ श्रीशिवाशिवशक्त्यैक्यरूपिणी ललिताम्बिका ॥ श्रीयुक्ता शिवा श्रीशिवा । शिवशक्त्योरैक्यं सामरस्यमेव रूपमस्या: । उक्तञ्च वायुसंहितायाम् 'शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता । ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥' श्रीचक्रराजः निलयः गृहं यस्याः सा । निलयायै इति ॥|| श्रीमती त्रिपुरेषु जाग्रदादिषु सुन्दरी सर्वस्पृहणीया । सुन्दर्यै इति ॥ २३३ ॥ श्रीशिवः परशिवः तद्रूपा । शिवायै इति ॥ शिवशक्त्योरैक्यं सामरस्यं तदेव वास्तवं रूपमस्या: । रूपिण्यै इति ॥ ललते अविशेषात्सदा सर्वत्र शोभतेऽसौ ललिता सा चासौ अम्बिका चेति । ललिताम्बिकायै नम इति ॥ ललितासहस्रनामसु वाग्देवीविरचितेषु व्याख्यातुं कः प्रभवति ललितादेवी नामैकम् । कृपाकटाक्षमृते ॥ १ ॥ सन्ति हि सहस्रनामस्तोत्राण्यन्यानि तानि विविधानि । व्याख्यातानि तथान्यैरेतन्नाम्नः बहुजन्मसुकृतसेवनसम्प्राप्तश्रीशिवा भास्कररायैर्भाषितमेतद्भाष्यं कला समानिकिमु ॥ २ ॥ कटाक्षकणैः । महार्थसिद्धान्तम् ॥ ३ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy