________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
311
सौभाग्यभास्कर-बालातपासहितम् लोकातीता गुणातीता सर्वातीता शमात्मिता ॥ २२७ ॥ लोकाञ्जीवान्वाऽतीता । अत एव गुणानतीता सर्वमतीता वा सर्वान् शब्दानतीता वा । उक्तञ्च ज्ञानार्णवे
'शब्दातीतं परं ब्रह्म गणनारहितं सदा। आत्मस्वरूपंजानीहि....
........॥ इति । शम: प्रपञ्चोपशम एवात्मा स्वरूपं यस्याः । 'प्रपञ्चोपशमं शिवमद्वैतं चतुर्थ मन्यन्त' इति नृसिंहतापनीये । शं सुखमात्मा यस्या इति वा ॥ २२७ ॥
बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी। बन्धूको बन्धुजीवको वङ्गदेशप्रसिद्धो महावृक्षस्तस्य कुसुमं पुष्पं तस्येव प्रख्या कान्तिर्यस्याः । अत्यारक्ततमा कान्तिर्यस्या वा । बाला कुमारी | 'त्वं कुमार उत वा कुमारी ति श्रुतेः । त्रिपुरासिद्धान्तेऽपि- 'बालालीलाविशिष्टत्वाद्वालेति कथिता प्रिये' इति । लीला प्रापञ्चिकी क्रीडैव विनोदो यस्याः । पद्यराजस्य भार्या लीलाख्या योगवासिष्ठे प्रसिद्धा तां विशिष्य सत्कर्मसु नोदयतीति वा । लीलादेव्या तपसा सरस्वती तोषिता सा तुष्टा तस्यै ज्ञानं तद्भर्तृजीवनं च प्रादादिति कथायां विस्तरेण वर्णनात् । देवीपुराणे नामनिर्वचनाध्याये-लक्ष्मीलालनतो लीले ति निर्वचनदर्शनाल्लीलेत्येतावन्मात्रस्य भिन्ननामत्वं स्वीकृत्य ब्रह्मजननीत्यनयोरेकनामत्वमित्यपि सुवचम् ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ २२८ ॥ शोभनं मङ्गलमस्या इति सुवासिनीसंज्ञा । संज्ञात्वादेव 'केवलमामके'त्यादिना डीप् । 'सुमङ्गली संज्ञायामिति गौराद्यन्तर्गणसूत्रेण ङीष् वा । शोभनं मङ्गलं ब्रह्मैवेति वा । तदुक्तं विष्णुपुराणे
'अशुभानि निराचष्टे तनोति शुभसन्ततिम् । श्रुतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं विदुः ॥
लोकानतीता अतिक्रम्य परपदे स्थिता । अतीतायै इति ॥ गुणान्सत्त्वादीनतिक्रम्य स्थिता । अति(ती)तायै इति ॥ सर्वं षट्त्रिंशत्तत्त्वमतीता । अतीतायै इति ॥ शमः संसारक्षोभराहित्यं तदात्मिका । आत्मिकायै इति ॥ २२७ ॥
बन्धूककुसुमस्येव प्रख्या कान्तिर्यस्याः सा । प्रख्यायै इति ॥ बाला ललिताकुमारी तद्रूपा । बालायै इति ॥ लीलायां क्रीडायां विनोद: हर्षोऽस्याः अस्तीति सा | विनोदिन्यै इति ॥ ___सुमङ्गली शोभनमङ्गलमस्या इति । सुमङ्गल्यै इति ॥ सेवकानां सुखं करोतीति सा । कर्ये इति ॥ शोभनवेषेणाढ्या युता । आढ्यायै इति ॥ सुवासिनी रूपा । सुवासिन्यै इति ॥ २२८ ॥
For Private and Personal Use Only