SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 ललितासहस्रनामस्तोत्रम् सूत्रार्थमार्गणमहाव्रतभावनानि निर्बन्धमोक्षगमनागतिहेतुचिन्ता । पञ्चेन्द्रियाद्युपशमश्च दया च भूते ध्यानं तु धन्यमिति तत्प्रवदन्ति सन्तः ॥ यस्येन्द्रियाणि विषयैर्न विचर्चितानि संकल्पनाशनविकल्पविकासयोगैः। तत्त्वैकनिष्ठधृतियोगभृतान्तरात्मा ध्यानं तु शुक्लमिति तत्प्रवदन्ति सिद्धाः॥ इति । एतेषां फलभेदोऽपि भविष्योत्तर एव 'आर्ते तिर्यगधोगतिश्च नियता ध्याने च रौद्रे सदा धन्या देवगतिः शुभं फलमथो शुक्रे च जन्मक्षयः । तस्माज्जन्मरुजापहे हिततरे संसारनिर्वाहके ध्याने श्वेततरे रजःप्रमथने कुर्यात्प्रयत्नं बुधः ॥' इति । तत्र धन्याख्यध्यानरूपेति । धर्मशीलत्वाद्धर्मिणी । आनन्दानुभवनित्यत्वादिधर्माणां विशेष्यभूता वा । धर्मं वर्धयतीति धर्मवर्धिनी । तदुक्तं वामनपुराणे 'जितेन्द्रियत्वं शौचं च माङ्गल्यं भक्तिरेव च । शङ्करे भास्करे देव्यां धर्मोऽयं मानुषः स्मृतः ॥ ध्यातः साम्ब इमान् धर्मान् वृद्धिं नयति देहिनाम् ॥ इति 'वृधु छेदन' इति धातोर्ब्रह्माधिष्ठानकं धर्ममात्रं दृश्यजातं छेदयतीति वा । लोकानिन्द्रलोकादिविष्णुलोकान्तानतीतातिक्रम्य महाकैलासाख्ये परशिवपुरे स्थिता । परशिवपुरस्य सर्वलोकातीतत्वं शिवधर्मोत्तरे अर्वाचीनॉल्लोकान् वर्णयित्वा, 'ज्ञेयं विष्णुपदादूर्ध्व दिव्यं शिवपुरं महत्' इत्यारभ्य इत्येतदपरं तुभ्यं प्रोक्तं शिवपुरं महत् । देहिनां कर्मनिष्ठानां पुनरावर्तनं स्मृतम् ॥ इत्यन्तेन कर्मठप्राप्यं शिवपुरं वर्णयित्वा, 'ऊर्ध्व शिवपुराज्ज्ञेयं स्थानत्रयमनुत्तमम् । नित्यं परमशुद्धं च स्कन्दोमाशङ्करात्मकम् ॥ इत्यारभ्य 'ये सम्प्राप्ताः परस्थानं ध्यानयोगरता नराः। न तेषां पुनरावृत्ति?रे संसारसागरे ॥ सर्वज्ञाः सर्वगाः शुद्धाः परिपूर्णाः महेश्वराः। शिवतुल्यबलोपेताः परं शिवपुरं गताः ॥ इत्यन्तम् । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy