________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
309
अत्र इतिशब्दः सहस्रसंख्यासमाप्तिपरः । तदितराणि नामाक्षरसंख्यापराणि । पक्षे भवात् परशिवमारभ्यागुरुवर्गं नाथसमूहं स्वगुरुपर्यन्तं विशिष्य भजेत्यर्थः । गुणगणैः साक्षाद्रविस्वरूपम् । खगानां देवानामपीशं चतुर्विधक्लेशान् जरायुजादियोनिचतुष्टयजन्यान्हरन्तम् । चतुः संख्या दृढामोदाध्यानसुखाः पुरुषार्था यस्मात्तम् । गुणशीले हृदि इति अनेन प्रकारेण सहस्रनामादिरूपेण गदन्तमुपदिशन्तम् । नवचरणशब्दो नामारम्भे व्याख्यातः ॥ ३२ ॥
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ २२६ ॥
शश्वत् पौनःपुन्यं तत्सम्बन्धिनी पुनःपुनरभ्यस्यमानेत्यर्थः । नित्या वा । 'शाश्वतस्तु ध्रुवो नित्य' इत्यमरः । सिद्धिः शाश्वती नेतरेषामिति श्रुतेः शाश्वतं नित्यमैश्वर्यं यस्याः । यद्वा ईकारप्रश्लेषेणेशा: जगदीशाः पञ्चप्रेतास्तेष्वश्वताऽश्वत्वं वाहनत्वं येन तादृशमैश्वर्यं यस्याः । पञ्चप्रेतासनारूढेति फलितार्थ: । शर्म सुखं दत्ते शं भावयति भवते वा शम्भुः । मितवादित्वाड्डप्रत्ययः । तस्य मोहिनीति वा । शम्भुं मोहयतीति वा शम्भुमोहिनी || २२६ ॥
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ।
धरा पृथ्वीस्वरूपा सर्वस्य जगतो धारणाद्वा । लकारस्वरूपा वा । 'लकारः पृथिवीदेवी सशैलवनकानना । पञ्चाशत्पीठसम्पन्ना सर्वतीर्थमयी परा ॥
इत्यादि ज्ञानार्णवे | धरस्य हिमवत्पर्वतस्य सुता । धन्या कृतार्था धनाय हिता वा । धनं लब्ध्री वा । 'धनगणं लब्धेति यत्प्रत्ययः । 'मङ्गलापिङ्गलाधन्येति ज्योतिःशास्त्रप्रसिद्धयोगिनीविशेषरूपा वा । यद्वा चरमकालीनाश्चिन्ता आर्तरौद्रधन्यशुक्लभेदेन चतस्रो भविष्योत्तरपुराणे कथिता यथा
'राज्योपभोगशयनासनसाधनेषु
स्त्रीगन्धमाल्यमणिवस्त्रविभूषणेषु ।
इच्छाभिलाषमतिमात्रमुदेति मोहाद् ध्यानं तदार्तमिति संप्रवदन्ति तज्ज्ञाः ॥ संच्छेदनैर्दहनताडनपीडनैश्च गात्रप्रहारदमनैर्विनिकृन्तनैश्च । यस्येह राग उपयाति न चानुकम्पा ध्यानं तु रौद्रमिति तस्य वदन्ति सन्तः ॥
शाश्वती नाशरहिता । शाश्वत्यै इति ॥ शाश्वतं रूपमैश्वर्यं यस्या सा । ऐश्वर्यायै इति ॥ भक्तेभ्यः शर्म सुखं ददातीति सा । शर्मदायै इति ॥ शम्भुं मोहयतीति सा । मोहिन्यै इति ॥ २२६ ॥
धरा पृथ्वीरूपा । धरायै इति ॥ धरस्य हिमवतः सुता । सुतायै इति ॥ धन्या कृतार्था । धन्य इति ॥ धर्मिणी धर्मवती । धर्मिण्यै इति ॥ धर्मं वर्धयतीति सा । वर्धिन्यै इति ॥
For Private and Personal Use Only