SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 308 ललितासहस्रनामस्तोत्रम् इति पञ्चमीशब्दो वाराह्यां निरूढो वा । सा च यद्यपि ब्राह्मयादिषु पञ्चमीति पञ्चरत्नदेवातासु चरमेति पञ्चकोशादिचरमदेवतास्विव यौगिक एव स तस्यां भासते तथापि दक्षिणामूर्तिसंहितायाम् ................पूजयेत्पञ्चमीसुतम्। घटं स्पृष्ट्वा हृदि ध्यात्वा पञ्चमी परमेश्वरीम् ॥ पञ्चमी शकटं यन्त्रं त्रिषु लोकेषु दुर्लभम् ।' इत्यादौ वाराह्यामेव बहुतरप्रयोगदर्शनाद्योगरूढोऽप्यवसेयः । मकारेषु पञ्चमस्यानन्दरूपत्वात्तद्रूपा वा । तथा च कल्पसूत्रम् 'आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् । तस्याभिव्यञ्जकाः पञ्च मकारास्तैरथार्चनम् ॥ गुप्त्या ............. ......................... इत्यादि । अतएव पञ्चानां मानां मकाराणां समाहारः पञ्चमीति वा । तानि च त्रैपुरसूक्ते- 'परिस्रुतं झषगाद्यं पलं चेत्यस्यामृचि प्रसिद्धानि । दानशुद्ध्यादयो गुरुमुखादवगन्तव्याः । 'पञ्चमाहुतावापः पुरुषवचसो भवन्तीति श्रुतिप्रसिद्धा योषित् कुण्डे रेतो हविष आहुतिरुक्तयज्ञेषु पञ्चमी तद्रूपा वा । कैवल्याख्या पञ्चमी मुक्तिस्तदभिन्ना वा । पञ्चसंख्यानां भूतानां पृथिव्यादीनामीशी । यद्वा पञ्चधाभूता पञ्चप्रकारा जातेति वा । पञ्चमहाभूतात्मिका वा पञ्चरत्नात्मिका वा वैजयन्तीमाला तदीशी । उक्तञ्च विष्णुपुराणे 'पञ्चरूपा तु या माला वैजयन्ती गदाभृतः। सा भूतहेतुसङ्घाता भूतमाला भवेद् द्विज ॥ इति । अत्र पञ्चरूपेति पदं मुक्तामाणिक्यमरकतेन्द्रनीलवज्रसमानवर्णेति व्याचक्षते । विष्णुरहस्येऽपि 'पृथिव्यां नीलसंज्ञानमद्भयो मुक्ताफलानि च । तेजसः कौस्तुभो जातो वायोर्वैडूर्यसंज्ञकम् ॥ पुष्करात्पुष्परागस्तु वैजयन्त्या हरेरिमे । इति । पञ्चसंख्या गन्धपुष्पधूपदीपनैवेद्याख्या उपचारा अस्याः ॥ अथ परिभाषायामवशिष्टानि पञ्चाशन्नामानि विभजते गुणगणरविं खगेशं चतुर्हरन्तं चतुर्दृढामोदम् । गुणिहृदि विभज भवाद्गुरुवर्ग च नवचरणं गदन्तमिति ॥ ३२ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy