SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 307 चातुर्मास्यानि पशुः सोम' इति श्रुतौ कथिताः, स्मृतिषु प्रसिद्धा देवयज्ञ-ब्रह्मयज्ञ-भूतयज्ञपितृयज्ञ-मनुष्ययज्ञा वा । पाञ्चरात्रागमे- 'अभिगमनमुपादानमिज्यास्वध्याययोग' इत्युक्ता पञ्चविधा पूजा वा | कुलागमे केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः। इति पञ्चविधा पूजा....................॥ इत्युक्ता वा । नित्यातन्त्रे- 'हेतिभिर्मध्यमाद्यं स्याद् द्वितीयं नवयोनिष्वि'त्यारभ्य 'इति पञ्चप्रकारार्चा प्रोक्ता सर्वार्थसिद्धिदेत्यन्तेनोक्ता वा । बृहत्तन्त्रकौमुद्यां तन्मूलके मन्त्रमहोदधौ च- 'आतुरीसौतकीदौर्बोधीत्रासीसाधनाभावनीति कथिता वा । 'अग्निहोत्रे हूयमाना दुग्धादिरूपा आपः सोमधुपृथिवीपुरुषयोषिद्रूपकुण्डपञ्चके पुनःपुनर्रयन्ते तदा ता एवापः शरीरभावं भजन्तीत्युपनिषत्सु रंहत्याद्यधिकरणेषु च स्पष्टोऽयं विषयः । त एते पञ्चयज्ञा वा । 'पचि विस्तार' इति धातोर्घञर्थे कविधानात्पञ्चो विस्तृतो यज्ञो विश्वसृजामयनादिर्वा । सर्वेषामेतेषामेकशेषः । ब्रह्मादयश्चत्वारः प्रेताः पादा. । सदाशिवाख्य: प्रेत: फलकमेतादृशं मञ्चं पर्यङ्कमधिशेते । उक्तञ्च भैरवयामले बहुरूपाष्टकप्रस्तारे च 'शिवात्मके महामञ्चे महेशानोपबर्हणे । भृतकाश्च चतुष्पादाः कशिपुश्च सदाशिवः ॥ तत्र शेते महेशानी महात्रिपुरसुन्दरी। इति । आचार्यभगवत्पादैरयुक्तम् 'गतास्ते मञ्चत्वं दुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः। इति ॥२२५ ॥ पञ्चमी पञ्चभूतेशी पञ्चसंख्योपचारिणी । ब्रह्मादिषु पञ्चसु पञ्चमस्य सदाशिवस्य स्त्री | सूतगीतायां तस्याप्यम्बासहायोक्तेः-- 'त्रिषु रुद्रो वरिष्ठः स्यात्तेषु मायी परः शिवः । मायाविशिष्टात्सर्वज्ञात्साम्बः सत्यादिलक्षणः॥ सदाशिवो वरिष्ठः स्यान्नात्र कार्या विचारणा ।' पञ्चमी तुरीयातीतरूपा । पञ्चम्यै इति ॥ पञ्चभूतानां पृथिव्यादीनामीशी अधिष्ठात्री । ईश्यै इति ॥ पञ्चसंख्या गन्धाधुपचाराः यस्याः सा । उपचारिण्यै इति ।। For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy