SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् 301 इति । अथवा चैतन्यस्यात्मनोऽर्येण ज्ञानेन स्वानुभूत्येत्यर्थः । 'अर्घ्यः पूजाविधौ मूल्येऽप्यर्क्ष्यो विद्याद्द्रुमूलयो'रिति विश्वः | अर्थ्ये साधुरित्यर्थेः यत्प्रत्ययः । चातुर्वर्ण्यादेराकृतिगणत्वाद्वा स्वार्थे ष्यञ् । आर्घ्यमित्येव छेदः । चैतन्यवाचकोऽर्थ्यो विद्यास्त्रीदेवत्यो मनुरिति वा । तेन भुवनेश्वरीमन्त्रेण समाराध्या । स्त्रीदेवतास्तु विद्याः स्युर्मन्त्राः पुंदेवता मता' इति वचनात् । सूतसंहितायाम् 'जपित्वा दशसाहस्रं मन्त्रं चैतन्यवाचकम् । महापातकसङ्घैश्च मुच्यते पातकान्तरैः ॥ इति श्लोके चैतन्यवाचकमन्त्रपदस्य भुवनेश्वरीमन्त्रपरत्वेन व्याख्यातत्वाच्च । अथवा चेतनैव चैतन्यं संविद्रूपो रसः । 'चेतना संविदि प्रोक्ता वाच्यवत्प्राणिनि स्मृतेति विश्वः । स एवार्घ्यः पूजाद्रव्यं विशेषार्घ्यपात्रे परिपूरणेन संस्कारैः पूजायोग्यतामापादितइति यावत् । तेन सम्यक्तर्पणादिनाराध्या । 'संविदासवयोर्मध्ये संविदेव गरीयसी' रुद्रयामलात् । तान्त्रिकैः कुण्डगोलोद्भवपदेन व्यवह्रियमाणः पाञ्चमिको रसो वा चैतन्यं प्राणिसम्भवत्वात् । चैतन्यं चिदेव कुसुमं महाफलप्रसूतित्वात् । 'जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी' त्यादौ कुसुमत्वेन रूपकस्य कविसम्प्रदायसिद्धत्वात् । तत्प्रियं यस्याः । उपलक्षणमेतत्पुष्पाष्टकस्य 'अहिंसा प्रथमं पुष्पमिन्द्रियाणां च निग्रहः । क्षान्तिः पुष्पं दयापुष्पं ज्ञानपुष्पं परं मतम् ॥ तपः पुष्पं सत्यपुष्पं भावपुष्पमथाष्टमम् । Acharya Shri Kailassagarsuri Gyanmandir इत्यभियुक्तोक्तेः संविदादिपक्षद्वयमिहाप्यतिदेष्टव्यम् । तयोश्च कुसुमसद्भावाच्चैतन्यस्य कुसुममित्येव पक्षद्वयेऽपि विग्रहः । सदोदिता सदा तुष्टा तरुणादित्यपाटला ॥ २२१ सदा नित्यं उदिता उदयवती स्वप्रकाशत्वात् । सत्सु सज्जनेषु आसमन्तादतिशयेनोदिता वा । एवमेव सदातुष्टेत्यस्य द्वावर्थौ । तरुणो मध्याह्नकालिक आदित्यः सूर्यस्तद्वत्पाटला श्वेतरक्ता । न च गौरी श्यामेत्यादिभिर्विरोध उद्भाव्यः । मूर्तिभेदेनध्यानभेदेन वा व्यवस्थोपपत्तेः । श्रूयते च तद्यथा महारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोप' इति । स्मर्यते च 'शान्ता धवलवर्णाभा मोक्षधर्मप्रकल्पने । स्त्रीवश्ये राजवश्ये च जनवश्ये च पाटला ॥ सदा नित्यामुदिता अनस्तमितसंविद्रूपत्वात् । उदितायै इति ॥ सदा तुष्टा नित्यानन्दरूपत्वात् । तुष्टायै इति ॥ तरुणो य आदित्यः मध्याह्नार्कः तद्वत्पाटला श्वेतरक्तवर्णा । पाल इति ॥ २२१ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy