SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 299 सौभाग्यभास्कर-बालातपासहितम् । सर्वभूतदयावन्तः शान्ता दान्ता विमत्सराः। अमानिनो बुद्धिमन्तस्तापसाः संयतव्रताः ॥ मच्चित्ता मद्गतप्राणा मज्ज्ञानकथने रताः । संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः ॥ ये चोक्तैर्लक्षणींना अपि मन्नामजापकाः। तेषां नित्याभियुक्तानामापदां पर्वतानपि ॥ नाशयामितरां ज्ञानदीपेन न चिरादिह ।' इति । हरिवंशेऽपि देवी प्रति विष्णुवाक्यम्-नृणां बन्धं वधं रोधं पुत्रनाशं धनक्षयमित्यादिना यत्परम्परामुपन्यस्य 'आपत्सु निखिलासु त्वं रक्षस्येव न संशय' इत्यन्तम् । वाराहेऽपि ब्रह्मादिकृतदेवीस्तोत्रान्ते 'शरणं त्वां प्रपद्यन्ते ये देवि परमेश्वरि । न तेषामापदः काश्चिज्जायन्ते क्वापि संकटः ॥' इत्यादि । अभियुक्ता अप्याहु: 'आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः । तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करीकुरुते ॥ इति ॥ अथ परिभाषायां सप्तत्रिंशन्नामानि विभजते खेचरता द्विर्भवदा देहे चैका भवेहेवी। भगणे चतुर्गुणा भूर्भवभालशतेन गोमेदा ॥ ३१ ॥ अत्रोत्तरार्ध इव पूर्वार्धे नकारस्याकथनादेकपदोपादानाच्च दशसंख्याधिक्ये सिद्धे तत्र प्रथमोपस्थितत्वादेकादशाक्षरं नामेति सिद्ध्यति ॥ ३१ ॥ स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ २२० ॥ दुःखकृतचाञ्चल्याभावात्स्वस्था स्वस्मिन्नेव स्थिता वा । 'स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नीति होवाचेति श्रुतेः । स्वरित्यव्ययं स्वर्गवाचि । तत्र तिष्ठत्यध्यक्षतयेति वा । शोभना अस्था स्थित्यभावो गतिर्यया सा वा । प्रभावादेवोपाधिसम्पर्कमन्तरेणैव मधुरा सर्वाभिलषणीया । 'मधुरं रसवत्स्वादुप्रियेषु मधुरोऽन्यवत् । मधुरा शतपुष्पायां मधूलीनगरीभिदोः॥ क्लेशलेशस्याप्यभावात् स्वस्था । स्वस्थायै इति ॥ स्वभावतो निसर्गेणैव मधुरा सर्वाभिलषणीया । मधुरायै इति ॥ धीरा धैर्यवती । धीरायै इति ॥ धीरैः सम्यगर्चिता । अर्चितायै इति ॥ २२०॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy