________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमशतकं नाम एकादशी धारिणी कला
-नादरूपिणी । नादः प्रणवशिरस्थितस्तद्रूपा । तदुक्तमभियुक्तैः'आनन्दलक्षणमनाहतनाम्नि देशे नादात्मना परिणतं तव रूपमीशे ।
प्रत्यङ्मुखेन मनसा परिचीयमानं शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ इति । नादे रूपमस्या वा । तदुक्तं स्वच्छन्दतन्त्रे-'रोधिन्याख्यं यदुक्तं ते नादस्तस्योर्ध्वसंस्थित' इत्यादिना 'तस्योत्सङ्गगतामूर्ध्वगामिनी परमां शिवाम् । ध्याये दित्यन्तेन ।
विज्ञानकलना कल्या विदग्धा बैन्दवासनी ॥ २१८ ॥ विज्ञानस्य ब्रह्मसाक्षात्कारस्य कलना स्वात्मसाक्षात्कारः 'चतुर्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमिति तद्विद्या दिति कौर्मोक्तं वा विज्ञानम् । कलासु साधुः कल्या । यद्वा कलयितुमर्हा कल्या उषःकालरूपा वा । कादम्बर्यादिरूपा वा ।
कल्यं सर्गे प्रभाते च कल्यो नीरोगदक्षयोः।
कल्या कल्याणवाची स्यात्कादम्बर्यामपि स्मृता ॥ इति विश्वः । विदग्धा चातुर्यशीला । भ्रूवोरुपरिभागे वृत्तसन्निवेशो बैन्दवं तदासनं यस्याः । उक्तञ्च स्वच्छन्दतन्त्रे- 'हाकिनीमण्डलादूर्ध्वं बिन्दुरूपं तु वर्तुल मित्यादिना | तत्र पद्मं शिवं च वर्णयित्वा तस्य 'वामभागे समासीना शान्त्यतीता मनोन्मनी'त्यादिना बिन्दुसम्बन्धिचक्रं सर्वानन्दमयाख्यमेवासनं यस्या वा । बिन्दुनां समूहो बैन्दवं तदेवासनं तदभिधेयार्थानामाधारोऽभिधायको यस्या इति वा । तथा च ज्ञानार्णवतन्त्रे
'बिन्दुव्यूहं प्रवक्ष्यामि बीजरूपं वरानने । हकारं बिन्दुरूपेण ब्रह्माणं विद्धि पार्वति ॥ सकारं बिन्दुसर्गाभ्यां हरिश्चाहं सुरेश्वरि । अविनाभावसम्बन्धौ लोके हरिहराविति ॥
नादः शक्तिः स रूपम् अस्याः । रूपिण्यै इति ॥
विज्ञाने स्वात्मानुभवे कलनं विमर्शनं स्फुरणं यस्याः सा । कलनायै इति ॥ कलयितुं ज्ञातुं योग्य कल्या । कल्यायै इति ॥ विदग्धा चतुरा । विदग्धायै इति ॥ वैन्दवे चक्रे आसनं यस्याः सा । आसनायै इति ॥ २१८ ॥
For Private and Personal Use Only