________________
Shri Mahavir Jain Aradhana Kendra
292
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
इत्यादिना वामादीनामिच्छादीनां भूरादीनां जाग्रदादीनां च त्र्यं त्रयं बिन्दुरूपमेवोक्त्वोपसंहृतम्- 'एवं बिन्दुत्रयैर्योगात्त्रिपुरानामरूपिणीति । यद्वा अकारप्रश्लेषेणाप्सु यदैन्दवमिन्दुसमूहस्तस्मिञ्जीवकदम्बे आस्ते बिम्बरूपत्वादभेदेन स्वयमेकैव बहुषु प्रतिबिम्बेषु तिष्ठति । 'एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति श्रुतेः || २१८ ॥ तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
तत्त्वानि प्रलयपर्यन्तस्थायिवस्तूनि षट्त्रिंशत्संख्यान्येव । घटादीनां तत्त्वपदवाच्यत्वाभावात् । उक्तं चाभियुक्तै:
'आप्रलयं यत्तिष्ठति सर्वेषां भोगदायि भूतानाम् । तत्तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति । तेभ्योऽधिका तन्नाशेऽप्यवस्थानात् । तत्त्वमयी तत्त्वप्रचुरा । यद्वा तत्त्वं शिवतत्त्वं तदधिका चिन्मयी चेति नामद्वयार्थः । सम्प्रज्ञातासम्प्रज्ञातसमाधिद्वयरूपेति यावत् । तदुक्तं ज्ञानार्णवे
'स्वयंप्रज्ञात संज्ञस्तु शिवाधिक्येन जायते । असम्प्रज्ञातनामा तु शिवतत्त्वेन वै भवेत् ।'
तल्लक्षणे अपि तत्रैव
'स्वयंप्रज्ञातभेदस्तु तीव्रतीव्रतरो भवेत् । असम्प्रज्ञातभेदस्तु मन्दमन्दतरस्तथा ॥ हास्यरोदन रोमाञ्चकम्पस्वेदादिलक्षणः । तीव्रतीव्रतरो देवि समाधिरुपलक्षितः ॥ निमेषवर्जिते नेत्रे वपुस्तल्लक्षणं स्थितम् । मन्दमन्दतरो देवि समाधिरुपलक्षितः ॥'
इति । इदञ्च द्वयं तेजोविशेषे मनोधारणेन भवति । तच्च तेज: स्वनाथमुखादवगन्तव्यम् । अथवा आत्मतत्त्वं विद्यातत्त्वं शिवतत्त्वं चेति त्रिविधतत्त्वमयी । तत्समष्टिरूपसर्वतत्त्वरूपत्वात्त्रिविधतत्त्वाधिका चेत्यर्थः । चतुर्विधतत्त्वस्वरूप
मुक्तं वृद्धै:
'मायान्तमात्मतत्त्वं विद्यातत्त्वं सदाशिवान्तं स्यात् । शक्तिशिवौ शिवतत्त्वं तुरीयतत्त्वं समिष्टिरेतेषाम् ॥'
तत्त्वेभ्यः शिवादिक्षित्यन्तेभ्योऽधिका । अधिकायै इति ॥ तत्त्वैः प्रचरा । तत्त्वमय्यै इति ॥ तत्त्वमर्थो महावाक्यार्थः सः स्वरूपम् अस्याः । स्वरूपिण्यै इति ॥
For Private and Personal Use Only