SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 289 तेन स्थानरहिता अपरिच्छिन्नेत्यर्थः । अस्य विष्णोर्योनिर्जनिका मातेति वा । निलीयते जगद्यस्यामिति निलया योनिश्चासौ निलया च । योनिशब्द: प्रकृतिपरः । 'कर्तारमीशं पुरुषं ब्रह्मयोनि मिति श्रुतौ प्रयोगात् । कर्तारं क्रियाशक्तिमन्तमीशं नियन्तारं पुरुषं प्रत्यञ्चं ब्रह्म पूर्णं योनिं ध्यानेनापश्यन्निति व्याख्यानात् । 'योनिश्च हि गीयत' इति ब्रह्मसूत्रं च । यद्वा 'यो योनिं योनिमधितिष्ठत्येक' इति श्रुतौ मायापरत्वेनापि योनिपरस्य व्याख्यानदर्शनाद् योनिर्मायैव निलयः परिच्छेदिका यस्या इति । योनीनां जगत्कारणानां ब्रह्मादीनां नितरां लयो यस्यामिति वा । योनिस्त्र्यनचक्रमेव निलयो यस्या बिन्दुरूपाया देव्या इति वा । अत एवाथर्वणे शौनकशाखायां श्रूयते तस्मिन्हिरण्मये कोशे त्र्यक्षरे त्रिप्रतिष्ठिते । तस्मिन्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥ इति । अस्या ऋचः पूर्वम् अष्टाचक्रा नवद्वारा देवानां पूरयोध्या । तस्यां हिरण्मयः कोशः स्वर्गोऽपि ज्योतिषावृतः॥ इति श्रुतम् । अनयोर्कचोरर्थः--देवानामप्ययोध्या असाध्या दुर्लभा पू: नगरी श्रीचक्रमित्यर्थः । 'चक्रं पुरं च सदनमगार च गुहा स्त्रिया'मिति शङ्करारण्यधृतविश्वाख्यकोशात् । ईश्वरावासरूपायोध्यानगरी तु मानामयोध्या । इयं तु देवानामपीत्यर्थः । सा कीदृशी । अष्टाचक्रा अष्टौ चक्राणि अष्टारं द्वे दशारे मन्वनं अष्टदलषोडशदले पद्मे भ्रमित्रयं भूगृहत्रयं चोति यस्यां सा । नवसंख्यानि द्वाराणि योनिद्वारवत्त्रिकोणानि यस्यां सा। "पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसम्भव' इति नित्याहृदये । 'स्वाभिमुखाग्रत्रिकोणं शक्तिः, पराङ्मुखाग्रत्रिकोणं वह्निरिति मन्त्रशास्त्रीया परिभाषा । तस्यामयोध्यायां हिरण्मयस्तेजोमयः कोशो निधानं त्रिकोणरूपं स एव स्वर्गः सुखरूपत्वात् । तैत्तिरीयाणां स्वर्गो लोक इति पाठस्तस्याप्ययमेवार्थः । तस्मिन्हिरण्मय इत्यादिसप्तम्यन्तं पञ्चकं समानाधिकरणं स्पष्टार्थम् । त्रिकोणे यदस्ति बिन्दुरूपं चक्रं तस्मिन् यक्षं पूज्यं तत्प्रसिद्धं ब्रह्मविद आत्मनीव विदुः । आत्माभेदेनेव बिन्द्वभेदेनापि ब्रह्म मन्यन्त इत्यर्थः । कूटयति छलयत्यात्मानमानन्दादिकमावृत्य संसारे पातयतीति कूटमज्ञानं तदध्यक्षतया तत्र तिष्ठति । 'कूटस्थमचलं ध्रुव मिति स्मृतेः । कूटस्याज्ञानस्य स्था स्थितिर्यस्यां वा । कूटो गिरिशृङ्गं तद्वन्निष्क्रियतया तिष्ठतीति वा । अयस्कारैः प्रहाराधिकरणत्वेन भूमौ निखातो लोहविशेष: कूटस्तद्वन्निर्विकारा वा । कूटानां विश्वसमूहानां स्थितिर्यस्यां वा । वाग्भवादिकूटत्रये तिष्ठतीति वा । कूटं पुरद्वारं स्त्रीचक्रान्तर्गतत्रिकोणं तत्र तिष्ठतीति वा । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy