SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 ललितासहस्रनामस्तोत्रम् इति । कूर्मपुराणेऽपि हिमवत्कृतदेवीस्तवे 'सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् । शयानमब्धौ ललिते तवैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ इति । कौर्म एव मङ्कणकंप्रति शिवेन विश्वरूपे दर्शिते ___ 'किमेतद्भगवद्रूपं सुघोरं विश्वतोमुखम् । का च सा भगवत्पावे राजमाना व्यवस्थिता ॥ इति तत्पृष्टेन शिवेन स्वस्वरूपप्रभावं निर्वोक्तम् 'मम सा परमा माया प्रकृतिस्त्रिगुणात्मिका । प्रोच्यते मुनिभिः शक्तिर्जगद्योनिः सनातनी ॥ स एव मायया विश्वं व्यामोहयति विश्ववित् । नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ॥ इति । सनत्कुमारसंहितायां प्रभाकराख्यस्य राज्ञो विष्णुभक्तिं तन्महिष्याः पद्मिन्याख्यायाश्च पार्वतीभक्तिं वर्णयित्वोक्तम् 'एवं देव्यात्मना स्वेन रूपेण च जनार्दनः । दम्पत्योरेककायत्वादेक एव द्विधार्चितः ॥ इति । बृहत्पाराशरस्मृतावपि 'दुर्गा कात्यायनी चैव यजन्वाग्देवतामपि । चेतसा सुप्रसन्नेन विष्णुलोकमवाप्नुयात् ॥' इति । पद्मपुराणेऽपि 'चण्डिका स्नपयेद्यस्तु ऐक्षवेण रसेन च । सौपर्णेन स यानेन विष्णुना सह मोदते ॥ इति । आदित्यपुराण-शिवपुराणयोरपि-'या तस्य पार्श्वगा बाला सा पार्वत्यंशजो हरि रिति । वामनपुराणेऽपि पौर्णमास्यां तु यो माघे पूजयेद्विधिवच्छिवाम् । सोऽश्वमेधमवाप्नोति विष्णुलोके महीयते ॥ इति || अयोनिर्यानिनिलया कूटस्था कुलरूपिणी ॥ २१७ ॥ न विद्यते योनिः कारणं यस्याः साऽयोनिः । योनिशब्दः स्थानवचनो वा योनिष्ट इन्द्र निषदे अकारी ति श्रुतेः । हे इन्द्र ! तव निषदे उपवेशनाय मया स्थानं कृतमित्यर्थात् नास्ति योनिः कारणं यस्याः सा । अयोन्यै इति ॥ योनावन्तस्त्रिकोणे निलयो यस्याः सा । निलयायै इति ॥ कूटवदचलभावेन तिष्ठतीति सा । कूटस्थायै इति || कुलं सजातीयसमूहो जगत्, तद्रूपमस्याः सा । रूपिण्यै इति ॥ २१७ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy