________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर-बालातपासहितम्
इति । विश्वेषां ब्रह्माण्डानां भ्रमणं सृष्टिस्थितिनाशरूपं यातायातं कारयति ।
'स्वभावमेके कवयो वदन्ति कालं तथाऽन्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥'
'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥
इति श्रुतेः । देवनिष्ठो महिमा शक्तिरेव भ्रामिकेत्यर्थः । 'भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययेति स्मृतिश्च । विश्वशब्दो विष्णुपरो वा 'विश्वं विष्णुर्वषट्कार' इत्युक्तेः तस्य भ्रमणकारिणी । स्मर्यते तावत्कालिकापुराणेऽयमितिहास :- विष्णुरेकदा व्योममार्गेण गरुडारूढो गच्छन्नधः कामरूपदेशे नीलाचलवासिनीं कामाख्यां देवीं प्रत्यासन्नामप्यनादृत्य तामप्रणम्यैव गतः । ततस्तत्कोपवशात्समुद्रमध्ये पतितस्तत्रैव भ्रमन्नासीत् । ततः कियता कालेन गवेषयन्ती लक्ष्मीर्नारदमुखादिमं वृत्तान्तमाकर्ण्य तपसा कामाख्यां प्रसाद्य विष्णुं सावधानीकृत्य भ्रमणादमोचयत् । ततः सोऽपि तामाराध्य वैकुण्ठलोकमध्यवात्सीदिति ॥ २१६ ॥
विश्वग्रासा बिद्रुमाभा वैष्णवी विष्णुरूपिणी ।
विश्वं चराचरं ग्रसतीति विश्वग्रासा । चराचरसंहर्त्रीत्यर्थः । तथा च काठके श्रूयते
Acharya Shri Kailassagarsuri Gyanmandir
'शङ्खचक्रगदा धत्ते विष्णुमाता तथारिहा । विष्णुरूपाथवा देवी वैष्णवी तेन गीयते ॥'
इति । अत्र मृत्योरुपसेचनत्वोक्त्या तत्संहार्यचराचरप्रतीतेरित्याशयेन ब्रह्मसूत्रम्'अत्ता चराचरग्रहणादिति । विद्रुमाः प्रवालास्तद्वदारक्ता विद्रुमाभा । वित् ज्ञानमेव द्रुमः पुङ्खानुपुङ्खप्रसृतत्वसाम्यात्तेन तुल्येति वा । विष्णोरियं वैष्णवी । तथा च देवीपुराणे
287
आद्या शक्तिर्महेशस्य चतुर्धा भिन्नविग्रहा । भोगे भवानीरूपा सा दुर्गारूपा च सङ्गरे ॥ कोपे च कालिकारूपा पुंरूपा च मदात्मिका ।'
इति । अत्र चतस्रो व्युत्पत्तयः सूचिताः । तथारिहेत्यस्य विष्णुरिव दैत्यान्हन्तीत्यर्थः । विष्णुरूपेत्यस्य तदभिन्नेत्यर्थः । तेन न प्रथमव्युत्पत्त्या गतार्थता । तदेवाह । विष्णुरेव रूपमस्याः | तदुक्तं ललितोपाख्याने ब्रह्माण्डपुराण एव - ममैव पौरुषं रूपं गोपिकाजनमोहन'मिति देवीवचनात् । तत्रैव वीरभद्रंप्रति विष्णुवचनम्
For Private and Personal Use Only
विश्वं ग्रसति संहरतीति सा । ग्रासायै इति ॥ विद्रुमः प्रवालस्तद्वदाभा कान्तिर्यस्याः सा आभा इति ॥ विष्णुशक्तिरूपा । वैष्णव्यै इति ॥ विष्णोरूपं अस्याः सा । रूपिण्यै इति ॥