SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर-बालातपासहितम् 285 इति वायुपुराणात् । ज्ञानार्णवे शक्तिबीजसाधने स्रवत्पीयूषधाराभिर्वर्षन्तीं विषहारिणी - मिति यद्ध्यानमुक्तं तादृशरूपवतीति वा ॥ २१४॥ संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता । संसारलक्षणे कर्दमे नि:शेषेण मग्नानां जनानां सम्यगुद्धरणे पण्डिता कुशला । अत एवोक्तं कौर्मे . - 'ये मनागपि शर्वाणीं स्मरन्ति शरणार्थिनः । दुस्तरापारसंसारसागरे इति । वायुपुराणेऽपि - Acharya Shri Kailassagarsuri Gyanmandir न पतन्ति ते ॥ इति । यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ २१५ ॥ यज्ञाः प्रिया यस्याः । 'यज्ञो वै विष्णुरिति श्रुतेस्तत्प्रियेति वा । यज्ञस्य कर्ता यजमानात्मको दीक्षितमूर्तिः परमशिवस्तस्य पत्नी दीक्षाख्या सन्तानस्य माता । तदुक्तं लैङ्गै 'यजमानात्मको देवो महादेवो बुधैः प्रभुः । उग्र इत्युच्यते सद्भिरीशानश्वेति चापरैः ॥ उग्राह्वयस्य देवस्य यजमानात्मनः प्रभोः । दीक्षा पत्नी बुधैरुक्ता सन्तानाख्यस्तदात्मजः ॥' 'उग्रा तनुः सप्तमी या दीक्षितैर्ब्राह्मणैः सह । दीक्षा पत्नी स्मृता तस्य सन्तानः पुत्र उच्यते ॥' इति । अष्टसु शिवमूर्तिषु चरमा यजमानमूर्तिरिति क्वचिद्वर्ण्यते क्वचिदात्मेति तदुभयमप्याह | यजमानश्च स्वश्च यजमानस्वौ दीक्षितात्मानौ तौ रूपे अस्या इति । अल्पाच्तरस्य पूर्वनिपातो न नित्यः एतत्तदो रित्यादिनिर्देशात् । उक्तञ्च लै 'पञ्चभूतानि चन्द्रार्कावात्मेति मुनिपुङ्गवाः । मूर्तिरष्टौ शिवस्याहुर्देवदेवस्य धीमतः ॥ आत्मा तस्याष्टमी मूर्तिर्यजमानाह्वया परा । इति ॥ २१५ ॥ संसाररूपे पङ्के कर्दमे नितरां मग्नानां सेवकजनानां सम्यगुद्धरणे पण्डिता अभिज्ञा । पण्डितायै इति ॥ यज्ञः प्रियो यस्यः सा । प्रियायै इति ॥ यज्ञानां कर्त्री सर्वकर्मसु प्रेरकत्वात् । इति । अत एव यजमानस्य स्वरूपम् अस्याः सा । स्वरूपिण्यै इति ॥ २१५ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy